This page has not been fully proofread.

चतुर्थ: परिच्छेदः
 
यावतत्रावलम्बिन्या संसक्ता तरुशाखया ।
तावद्दर्वीकरणाहं दष्टा विटपवर्तिना ॥ १३४ ॥
 
कुमारं च दिदङ्क्षन्तं गृध्रः कोऽपि तमग्रहीत् ।
शाखामालम्ब्य चोत्तीर्णा मूढाहं विषमूर्च्छया ॥ १३५ ॥
 
ततो मुद्रादि कुर्वन्तं ' मुनिमासीनमन्तिकात् ।
दृष्ट्वा शिशुमपश्यन्त्या पृष्टेनाभाषि चामुना ॥ १३६ ॥
न जाने शिशुमेकस्माद् विषमन्त्रमशिक्षयम् ।
तत्परीक्षार्थमत्र त्वां दृष्प्रैवं कृतवानिति ॥ १३८ ॥
ततस्तेन सहान्विष्य दारकं मरणोन्मुखी ।
निराशा जीवितत्यागात्त्वयेह विनिवारिता ॥ १३८ ॥
 
इत्या कर्ण्याह मध्येन मन्विच्छामीति गच्छता ।
कृत्ताङ्घ्रिः पुरुषः कश्चिद् दृष्टः पम्पातटे मया ॥ १३९ ॥
 
सोऽब्रवीद् भद्र ! कावेरीतीरवर्तिनमर्भकम् ।
आदाय दयया गच्छन् मन्नोऽस्मिन्नम्बुरक्षसा ॥ १४० ॥
 
सरिदर्णसि मे हस्तादभ्रश्यदयमर्भकः ।
 
तं निशम्य निराशोऽहमावास्यैनमयासिषम् ॥ १४१ ॥
 
शिंशुमारशरीरोत्थं कुमारं दाशदर्शितम् ।
 
लेभे वणिगिति श्रुत्वा प्राप्तवान् कोलपत्तनम् ॥ १४२ ॥
तस्मिन् कोलाहलं श्रुत्वा दाशदत्तो वणिक्सुतः ।
नष्ट इत्यथ तत्रैकं कूपे पुरुषमैक्षिषि ॥ १४३ ॥
स मयोत्तारितः प्रोचे वणिक्पुत्रोऽहमौरसः ।
दाशदत्तसुतस्त्रेहान्मामनादृतवान् पिता ॥ १४४ ॥
तं कूपे क्षेप्तुकामेन प्रमादात् पतितं मया ।
तीर एव करभ्रष्टो न दृष्टः पुनरर्भकः ॥ १४५ ॥
 
1. मुनिं ध्यायन्तम्. क