2023-02-26 04:07:55 by ambuda-bot
This page has not been fully proofread.
३६
अवन्तिसुन्दरीकथासारे
कनीयसीं पुनः कन्यामुपयम्य सुलक्षणाम् ।
तस्यामुत्पादयन् पुत्रं पितॄणामनृणोऽभवम् ॥ १२२ ॥
धात्र्या समं स मे सूनुर्वर्षजातो न दृश्यते ।
स्नेहपाशेन गाढं मामबद्धं बद्धवान् मुनिः ॥१२३ ॥
कुमारस्यापहर्तारं दिष्टशक्त्या परीक्षितुम् ।
अस्यां जनपदे नद्यां निममज नृपाज्ञया ॥ १२४ ॥
ज्यायस्यां मम जायायां मज्जन्त्यामथ तज्जलम् ।
लोहितायितमालोक्य व्यस्मयन्त नृपादयः ॥ १२५ ॥
सापत्न्यादहमेवैनमप्सु क्षिप्तवती सुतम् ।
दण्डभीत्या मयेत्युक्ते व्यस्मेषततरां प्रजाः ॥ १२६ ॥
क्रूरकर्मतया राज्ञा निगृहीता पुनर्व॑ने ।
प्रोज्झितासुरिहैवासौ बभूव च पिशाचिका ॥ १२७ ॥
प्रतिज्ञातं तया भूयो ' जामीपुत्र विनाशनम् ।
तत् पश्यतो जुगुप्सा मे स्त्रीजातेऽपि महत्यभूत् ॥ १२८ ॥
॥
असौ खल्वासुरी सृष्टिर्निकृष्टजनसेविनी ।
अङ्गनेति विनाशाय मायेव भुवि निर्मिता ॥ १२९ ॥
सीमाभङ्गे लघुः सिन्धुर्धर्मच्छेदे मृदुः कलिः ।
रूक्षत्वे मुनयो दैत्याः स्त्री मायेव' गरीयसी ॥ १३० ॥
इत्यालपन्तमुद्वेगात् तमापृच्छय ततो गतः ।
अदूरे स्त्रियमुद्वध्य म्रियमाणामलक्षयम् ॥ १३१ ॥
मोचिता तु मयाचख्यौ धात्रीं मां सत्यशर्मणः ।
पुत्रेण सह तद्भार्यां चिक्षेप सरिदम्भसि ॥ १३१ ॥
महौघेनोह्यमाना तं मूर्ध्नि कृत्वा स्तनंधयम् ।
काष्ठभारावलम्बाहं बह्वावर्ते व्यवर्तिषि ॥ १३३ ॥
1. यन्मे. ग.
2. मायैव.