This page has not been fully proofread.

तृतीयः परिच्छेद:
तदग्रात्तत्करभ्रष्टः पतन्मे पुष्पभाजने ।
 
न जहाँ जीवितं सा तु निस्संज्ञाभवदङ्गना ॥ ११० ॥
 
मातरं च विचित्याहमकृतार्थः कुले कुले ।
लब्धैः स्तन्यरसैरेनं प्राप्तप्राणमिहानयम् ॥ १११ ॥
इत्याकर्ण्य मुदापूर्णः शुचा च नृपतिः सुतम् ।
पुष्पपातभुवा नाम्ना पुष्पोद्भव इति व्यधात् ॥ ११२ ॥
( देवरक्षितोत्पत्तिः)
 
अस्मिन्नेवान्तरे तस्मिन्नपरोऽपि द्विजोत्तमः ।
 
कुमारमुपनीयान्यं कथयामास तत्कथाम् ॥ ११३ ॥
 
तीर्थयात्रान्तरे राजन् ! कावेरीतीरवर्तिनम् ।
सर्वातिथिरिति श्रुत्वा प्राप्तोऽस्मि द्विजसत्तमम् ॥ ११४ ॥
 
शोकाविष्टममुं दृष्ट्वा तेनाहमभिनन्दितः ।
विविक्ते विप्रमप्राक्षं शोकावे शस्य कारणम् ॥ ११५ ॥
 
सच सर्वमवोचन्मे यथाहं मतिशर्मणः ।
सत्यशर्मेति निष्पन्नः पुत्रः पाटलिपुत्रके ॥ ११६ ॥
कृष्णसारविहारार्हो याज्ञीयो देश उच्यते ।
ब्रह्मावतीदिरत्रापि रम्या मगधभूमयः ॥ ११७ ॥
गृहस्थधर्मं धर्माणामुत्तमं जानतोऽपि मे ।
तीर्थयात्रारसः सर्व निर्विचारमपाहरत् ॥ ११८ ॥
 
ततश्चरन् दिशं याम्यां मलयप्रस्थवासिनम् ।
कलशोद्भव मद्राक्षं स मामित्यशिषन्मुनिः ॥ ११९ ॥
 
मन्निवासशुचावस्मिन् 'कवेरदुहितुस्तटे ।
नैष्ठिकत्वं विसृज्यैतत् क्रियतां दारसंग्रहः ॥ १२० ॥
 
इत्यादिष्टमनुष्ठास्यन्नत्रैकस्य द्विजन्मनः ।
कन्यामुदवहं मोहाद् वन्ध्या च भवति स्म सा ॥ १२१ ॥
 
गेऽस्य. क.
 
सह्याद्रि. ग,
 
1.
 
2.