This page has not been fully proofread.

३४
 
अवन्तिसुन्दरीकथासारे
 
वातवैषम्यतः पोते भग्ने मनोऽहमर्णवे ।
स्वच्छन्दचारी दैवेन द्वीपेऽस्मिन्नवारितः ॥ ९८ ॥
 
चिरदृष्टमिदं दृष्ट्वा वनं प्रत्यभिजानता ।
मयासि लब्धेत्याश्लिष्य प्रहृष्टतरमब्रवीत् ॥ ९९ ॥
अस्मन्मुखादिमां वार्तामाकर्ण्य स वणिक्पतिः ।
तस्मै कन्यां ददौ कंचित्कालं तत्रोषतुश्च तौ ॥ १०० ॥
 
ततः कुतश्चिदत्रत्याद् राजहंसाभिषेचनम् ।
भ्रात्रोमन्त्रिपदप्राप्तिं श्रुत्वा श्वशुरमन्दिरात् ॥ १०१ ॥
अन्तर्वत्नीं प्रियामादायागच्छन् दर्शनेच्छया ।
अर्णवे नावि मनायां दूरस्थो भर्तृदारकः ॥ १०२ ॥
न दृश्यते गया सार्धं लग्नैकफलके तु सा ।
वेलातटमनुप्रप्ता बाला वायुवशेरिता ॥ १०३ ॥
उत्तारितापि दैवेन प्रियसङ्गमनाशया ।
 
मया च मरणावेशाद वराकी विनिवारिता ॥ १०४ ॥
 
पूर्णेषु दिवसेष्वस्मिन्नभ्यर्णे पर्णमन्दिरे ।
सुतं वनमृगीवैनं दीर्घायुषमसूत सा ॥ १०५ ॥
शीतार्तिहरणायास्याः पावकान्वेषणोन्मुखी ।
बह्वपाय इहेत्येनं गृहीत्वाहमिहागमम् ॥ १०६ ॥
इत्यस्मिन्नन्तरे घोरो महिषः प्रजहार ताम् ।
तं निहत्यार्भकं हन्तुं प्रावर्वत वनद्विपः ॥ १०७ ॥
जात हस्ये किंकर्तव्यतया मयि ।
सिंहबृंहानुसारी तमुत्क्षिप्य ' प्रययौ गजः ॥ १०८ ॥
ततो गगन एवैनं फलान्तरधिया कपिः ।
गृहीत्वा मुहुराजिघ्रन्नङ्घ्रिपामगाहत ॥ १०९ ॥
 
2
 
1. वर्ण्य. ख. ग.
 
2. प्रजहौ. ख. ग.