2023-02-26 04:07:55 by ambuda-bot
This page has not been fully proofread.
चतुर्थः परिच्छेद:
ततस्तद्गृहमेव त्वां नीत्वा रात्रौ सुरङ्गया ।
मद्दारचोर इत्येनं राज्ञा च निरवासयम् ॥ ८६ ॥
पतिव्रता मया तु त्वं न जीविष्यसि दूषिता ।
इत्यदुष्टासि तद्भद्रे यथेष्टं चेष्टतामिति ॥ ८७ ॥
तच्छ्रुत्वा मर्तुकामाहं गङ्गास्रोतोनिपातिनी ।
केनाप्युत्तारिता पुंसा स तु भव मेऽभवत् ॥ ८८ ॥
स मां निर्बंध्य निर्दोषां मरणान्न्यरुणत् पतिः ।
ततस्तातगृहं प्राप्य तत्रैवावामस्वहि ॥ ८९ ॥
लोकान्तरगते पत्यौ मृताहमिह जन्मनि ।
पूर्वोपभुक्तमुयानं दृष्ट्वा तत्सर्वमस्मरम् ॥ ९० ॥
इत्युक्ते तरुणः कोऽपि प्रणयस्निग्धया गिरा ।
समीपादुपसृत्यैनां प्रत्याश्वासयदाश्वसन् ॥ ९९ ॥
सोऽहमस्मि वरारोहे ! यस्ते प्राणसमो जनः ।
पुरावां हंसमिथुनं वाप्यां क्काप्यभवाव तौ ॥ ९२ ॥
नारदस्यार्चनाम्भोजेष्वावयोश्चञ्चुचापलात् ।
खण्डितेषु वियुक्त्यै नौ शशाप कुपितो मुनिः ॥ ९३ ॥
दृष्ट्वैतत् करुणाविष्टं कुमारं नलकूबरम् ।
शशाप मुनिरत्युग्रः पुत्रत्वेन तमावयोः ॥ ९४ ॥
॥
प्रसादितः स सङ्गं नौ षोडशाब्दवियुक्तयोः ।
जातस्य तस्याप्यादिक्षत् सखित्वं चक्रवर्तिना ॥ ९५ ॥
पुत्रः पद्मोद्भवस्याहं पुष्पपुर्या वणिक्पतेः ।
रत्नोद्भव इति द्वाभ्यां सहजाभ्यां सहाभवम् ॥ ९६ ॥
सखित्वे राजहंसस्य कृत्वा मदुद्भ्रातरौ पिता ।
मां च पोतपतिं चके कुलधर्ममलङ्घयन् ॥ ९७ ॥
1.
5
चेष्ट्य क. ख.
३३