This page has not been fully proofread.

३२
 
अवन्तिसुन्दरीकथासारे
 
आराधयिष्यन् भूतेशमभ्यर्णे पुष्पभाजनम् ।
विनिधायारमे तत्र स्नातुं निर्झरवारिणि ॥ ७३ ॥
अथाग्निमानयं देशः कच्चिदित्युच्चभाषिणीम् ।
दृष्ट्वा किमिदमित्युक्ता प्रत्यूचे काचिदङ्गना ॥ ७४ ॥
श्रूयतां यवनद्वीपे वरिष्ठस्य वणिक्पतेः ।
कालगुप्तादयस्याहं जाता दुहितृवर्धनी ॥ ७५ ॥
सा कन्या यौवनारम्भे पुरुषद्वेषिणी पुनः ।
समुद्रदत्त ! क्कासीति मुमोहोपवने क्वचित् ॥ ७६ ॥
मया तु पृष्टा मत्प्रेम्णा रहसीदमभाषत ।
कृष्णगुप्तस्य नामाहं दुहिता पूर्वजन्मनि ॥ ७७ ॥
कदाचित्काम्यरूपेण पुंसा मे पितृसंनिधौ ।
इत्यालापितमश्रौषं मित्त्यन्तरनिषेदुषी ॥ ७८ ॥
 
समुद्रदत्तनामानं वणिजं गणयस्व माम् ।
तस्य मे विधिवैषम्यात् कर्णीपुत्रेण मित्रता ॥ ७९ ॥
मे
 
तेनापि गणिकाहेतोः परं वैरमभून्मम ।
कर्णीपुत्रः कळत्रं मे हर्तुं च प्रतिजज्ञिवान् ॥ ८० ॥
ततोऽहमकृतोद्वाहस्तन्तुच्छेदभिया पुनः ।
गूढमुद्रोढुमिच्छामीत्यस्मै तातश्च मामदात् ॥ ८१
निगूढं तेन नीताहमुज्जयिन्यां निजं गृहम् ।
कदाप्यनुनयन्तं मां पुरुषं कंचिदैक्षिषि ॥ ८२ ॥
प्रत्याचष्ट स मां पृष्टः कर्णीपुत्रोऽस्मि सुव्रते ।
अपसर्पैवेत्य त्वामुपासर्प सुरुङ्गया ॥ ८३ ॥
मन्त्रदेवतया च त्वां वशीकृत्य वणिक्कुले ।
कन्येति विनिधायाहमग्रहीषं ससाक्षिकम् ॥ ८४ ॥
समुद्रदत्तायाहं त्वां दर्शयित्वा भृशत्रुधम् ।
असाक्षिकविवाहं तं व्यजैषि विदुषां पुरः ॥ ८५ ॥