This page has not been fully proofread.

चतुर्थ: परिच्छेदः
 
अमात्येनार्य काख्येन स्वदेहे वह्निसात्कृते ।
इन्द्रदत्तेन राज्ञैव नन्दराज्यमभुज्यत ॥ ६० ॥
विरूपया च तज्ज्ञात्वा यक्षीभूयान्वभूयत ।
इतरावपि गुर्वर्थ कृत्वा स्वैरमगच्छताम् ॥ ६१ ॥
महापद्मसुतान् सर्वानुद्धृत्यामात्यकोपितः ।
तत्पदे खलु चाणक्य श्चन्द्रगुप्तमतिष्ठिपत् ॥ ६२ ॥
स तु पद्मनिधिः शप्तः कुबेरेणान्तिकं गतः ।
यस्मादर्थिजनस्येच्छा न त्वया परिपूरिता ॥ ६३ ॥
नैव न्यायार्जितं वित्तं यत्त्वया क्षत्रजन्मना ।
तस्मान्मानुष एव त्वं भूयो भूया इति स्फुटम् ॥ ६४ ॥
स च त्वत्तनयो भूत्वा निवृत्तस्य वनाद् ऋषेः ।
पुरञ्जयस्य साचिव्यं कृत्वा त्यक्ष्यति मर्त्यताम् ॥ ६५ ॥
इत्युक्त्वान्तर्हितो यक्षः पद्मः पद्मोद्भवाख्यया ।
आसीत् तस्य सुतः पश्चान्मन्त्री च श्वशुरस्य ते ॥ ६६ ॥
तस्य रत्नोद्भवो नाम सूनुः सागरमन्वगात् ।
वार्तापि तस्य साधो यावदद्य न विद्यते ॥ ६७ ॥
यौ सुश्रुतसुमन्त्राख्यौ तस्यास्तां तनुजाविमौ ।
सत्यशर्मसुमत्याख्यौ तनयौ मतिशर्मणः ॥ ६८ ॥
सुमित्रः कामपालश्च धर्मपालसुतावपि ।
सत्यशर्मा तु धर्मात्मा तीर्थयात्रामगाहत ॥ ६९ ॥
 
कामपालोऽपि कामात्मा क्कासौ न ज्ञायते गतः ।
अन्ये तु खलु चत्वारो य इमे मम मन्त्रिणः ॥ ७० ॥
इति ब्रुवति भूनाथे मुनिपुत्रः किशोरकम् ।
आश्चर्याकारमाश्लिष्यन्नाजगाम जगाद च ॥ ७१ ॥
अहमद्य कळिङ्गेषु तुनदारुणि कानने ।
रामतीर्थान्निवृत्तः सन् प्राप्तोऽस्मि हरमन्दिरम् ॥ ७२ ॥
 
३१