This page has not been fully proofread.

अवन्तिसुन्दरीकथासारे
 
अस्मिन् वर्षोपवर्षाख्यावभूतां सहजौ द्विजौ ।
वर्षस्तयोर्महाविद्वान् उपवर्षः कृषीवलः ॥ ४८ ॥
 
1.
 
माभूवं मूर्खजायेति ज्येष्ठमार्या कदाचन ।
मूर्खाय कशिपुं दत्वा धार्य व्रतमधारयत् ॥ ४९ ॥
 
मूर्खोचितमसौ गृह्णन्नुपवर्षः स्वभार्यया ।
कदर्शितो रुदत्याथ बीळात् स्वामिगृहं ययौ ॥ ५० ॥
तत्र प्रियङ्कनुप्त्वासौ हव्यशेषजिधित्सया ।
वृषजग्धे पुनश्चैवं यावत्कालमुपावसत् ॥ ॥ ५१ ॥
ततः प्रसन्नः सेनानीः प्रत्यक्षीभूय वाङ्मयम् ।
तवा टङ्केन तजिह्वां किमपि क्षिप्तवान् मुखे ॥ ५२ ॥
एकसन्धाहते नैतां विद्यामध्यापयेति तम् ।
अभिषाय गतो देवः सोऽस्म्यहं तदधीयताम् ॥ ५३ ॥
इत्युक्तास्तेऽमिवन्यै नमध्यगीषत वाङ्मयम् ।
 
सकृत् कात्यायनः श्रुत्वा' द्विळिवरथापरः ॥ ५४ ॥
 
ते तु निर्वर्तितस्वार्था गुर्वर्थ दक्षिणार्थिनः ।
 
महापद्ममुपेत्याथ प्रार्थ नर्थ मीहितम् ॥ ५५ ॥
 
4
 
तस्मिन् काले स कन्यां स्वां संहृताशेषहाटकः ।
यो मे हेमलवं दद्यात्तस्मै देयेत्यतिष्ठिपत् ॥ ५६ ॥
 
ततः कणिकया हेनः कन्यां कश्चिदयाचत ।
कुतो लब्धमिति क्षमापस्तमप्राक्षीत् स चाब्रवीत् ॥ ५७ ॥
मयैतत् कन्यकालोभान्निस्सुवर्णतया भुवः ।
श्मशानलब्धमित्युक्ते हर्षादौज्झ दस वसून् ॥ ५८ ॥
 
व्याळिशिक्षितयोगस्तमिन्द्रदत्तः कळेवरम् ।
प्रविश्यार्थैर्नृपो भूत्वा कात्यायनमतर्पयत् ॥ ५९ ॥
 
पाकमुवाप च. ख. 2. त्या. क.