This page has not been fully proofread.

चतुर्थ: परिच्छेद:
 
अशास्त्रज्ञतया भूयः परिव्राजक सन्निधौ ।
निन्दितो मूढयोगीति 'स्वामिधारामधारयम् ॥ ३५ ॥
 
आदिष्टश्च कुमारेण लब्ध्वा श्रुतधरं ततः ।
उपवर्ष भजस्वेति सोऽयमासादितोऽधुना ॥ ३६ ॥
इत्युक्ते सोऽभ्यधत्तान्य इन्द्रदत्तोऽस्मि नामतः ।
गुरोर्गोपालकस्याहं शिष्यः कांपिल्यदेशजः ॥ ३७ ॥
विरूपति विरुद्धाख्या कन्यासीत्तस्य तां पुनः ।
सर्वविद्यावते दातुं स संकल्पितवान् पिता ॥ ३८ ॥
तस्या मम च संजज्ञे गाढं प्रेम परस्परम् ।
अनन्योपायलभ्यत्वाद् विद्योपायमचिन्तयम् ॥ ३९ ॥
ततः स्वामिगृहं गत्वा सुब्रह्मण्यमतोषयम् ।
आज्ञप्तस्त्वेवमेवाहं देवेन पुनरागतः ॥ ४० ॥
विद्याध्ययानभागी च भविष्यत्ययमर्भकः ।
एकसन्धः स नो हस्ते तद् भद्रे ! दीयतां सुतः ॥ ४१ ॥
 
इत्युक्ता वह्निनाप्येतद् बोधिता पूर्वमेव सा ।
 
रुदती पुत्रवात्सल्यात् कथमप्यभ्युपागमत् ॥ ४२ ॥
कृतोपनयनं चैनमादाय मुदिताशयौ ।
उपवर्षगृहाभ्याशं प्रतस्थाते द्विजोत्तमौ ॥ ४३ ॥
तेनापि कश्चिदर्थीति विस्मिताज्जनतामुखात् ।
उपवर्षगृहं श्रुत्वा जग्मुर्वगृहन्तिके ॥ ४४ ॥
उपाध्यायः क्वेति पृष्टा तत्पत्नी रुष्टमानसा ।
अलं मा परिहस्येति पर्यश्रुनयनाभवत् ॥ ४५ ॥
ततः क्षेत्रादुपावृत्तः स्कन्धन्यस्तहलार्दिकः ।
उपवर्षः स तान् दृष्ट्वा विश्रान्तः पुनरत्रवीत् ॥ ४६ ॥
कतमः श्रुतधारीति तौ कात्यायनमूचतुः ।
प्रहृष्यन्नुपवर्षस्तान् विविक्त इदमब्रवीत् ॥ ४७ ॥
 
1. सोऽसि, ग.
 
२९