This page has not been fully proofread.

२८
 
अवन्तिसुन्दरीकथासारे
 
आसीत् कलापिनामास्य कन्या कात्यायनीत्यभूत् ।
अन्तर्वत्नी च सा कन्या जाता वैतानवह्निना ॥ २२ ॥
 
त्यक्ता दुष्टेति सा पित्रा साक्षाद्भूय हविर्भुजा ।
नीता गोदावरीं तत्र प्राप्ता वररुचिं सुतम् ॥ २३ ॥
पञ्चवर्षे वररुचौ तद्गृहं जग्मतुर्द्विजौ ।
एकस्तयोरभू व्याळिरिन्द्रदत्तस्ततोऽपरः ॥ २४ ॥
तयोर्विश्रान्तयोस्तस्मिन् नृत्तं दृष्ट्वा विलम्बितः ।
प्रदोषे गतभूयिष्ठे ययौ वररुचिर्गृहम् ॥ २५ ॥
ततः कुपितया मात्रा प्रयोगायाभिचोदितः ।
सर्वमेव यथादृष्टं दर्शयामास चेष्टया ॥ २६ ॥
 
दृष्ट्टैतद् विस्मितो व्याळिस्तन्मातरमभाषत ।
भद्रे ! भानोरहं सूनुर्व्याळिर्नाम द्विजन्मनः ॥ २७ ॥
लालयन्नेकपुत्रं मां नैवाध्यापितवान् पिता ।
अकृतद्विजसंस्कारं परिणाययति स्म माम् ॥ २८ ॥
एकदा दयितापादरञ्जनव्यामृते मयि ।
मिक्षार्थी तत्र मद्भार्यां दृष्ट्वास्मयत मस्करी ॥ २९ ॥
ततस्तस्मै स्मितं कृत्वा भिक्षां दत्तवती च सा ।
मया किमिति निर्बद्धा स्मितहेतुमवोचत ॥ ३० ॥
मूषिकाहं महाभागेनामुना चास्मि वर्धिता ।
जातु स्नातुं गतं भक्त्या छन्नमेवैनमन्वयाम् ॥ ३१ ॥
तत्र श्येनगृहीताहं तन्मुखाज्जाह्नवीजले ।
पतन्ती तीर्थमरणात् प्रपन्ना जातिमुत्तमाम् ॥ ३२ ॥
दैतद् भर्तृवाल्लम्यं तत्सर्वं स्मरतो मुनेः ।
अजनि स्मितमित्युक्त्वा संतस्थे किमपि प्रिया ॥ ३३ ॥
 
ऋन्दतो मे मुनिर्मोहं निनीषुर्मामशिश्वसत् ।
प्रव्रज्यां ग्राहितस्तस्माद् योगविद्यामशिक्षयम् ॥ ३४ ॥