This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
सरभसमाहतो भीत इव प्रतिखबलविषमवलदजगरभोगजिमै गुहा मुखैः सुतरा-
माररास लोकालोकः । यस्य च शिखिकुलानीव जलघरारसितस्यानुनेदुरुद्दाम-
रोमहर्षणानि सकलस्यैव बलसमूहस्य सन्माहतूर्याणि । तस्मिंश्च मुहूर्ते मुखपवना-
1
 
पूरितो भीत इवादरेण सजीवेनेव तारतरं शब्दयमानेन ....ङ्खमण्डलेन संवर्त
इवोद्वर्तन्त चटुलतरतुरङ्गतरङ्गपङ्कयः । परिप्लवप्रवरशस्त्रपण्यप्रपूर्णरथानीक
नियुतप्रोतव्राता(?) स्फीतजनघनौघरुद्वदशदिशश्चेत... जलधयः ।
 
3
 
भूपतिस्तु पुरोहितोपदिष्टेन वर्त्मना विधाय सर्वे प्रास्थानिक क्रियाकलाप
चन्द्रालोकमयमिव नेत्रनिवेशाभिरामघवलमंशुकयुगलमुद्वहन् .... शरदभ्रकुलेनेव
कल्कतेन (?) तदनुसारिणा चन्द्रनेन कृतसमालम्भनः प्रतिमुक्त मौक्तिकप्राय सकल-
भूषणो भीमानभीरपिशुनं तावर्षमिवातिदर्पादात्मनैव(?) लीलया दधानो, धवल-
मालतीस्मितमुखमुकुलकल्पितमुण्डमालिकाकुसुमकोमलया भ्रमणीय दिगन्तराला-
लोकनयारूढ(ग्रलव।ग्रेसरसर्वोच्चैः शिरसात्मकीर्त्या सर्वशुक्लश्व, कैलास इव
दशमुखचाहुदण्डश्चक्रे (?) सकललोकपालो कम्पनकारिणि द्रढीयसि व्यवसाये
वर्तमानः, स्थानदत्ततरुणतोरणजालजटिल पालिका सहस्रादिभिः (?) नव कमलिनीहरि-
तवर्णप्रस्तररत्नकुट्टिमादुपरितलाघः पार्श्वदत्तकलिलम्बमानरंलकाञ्चन कुसुम सञ्चय सुख-
सञ्चारेण मणिमयाळिन्दवर्त्मना पद्मरजःस्पर्श परिहारायोर्मिकरकमलैरिव स्वप्रति
चिम्चकैः पदे पदे धार्यमाणचरणश्चरणाभ्यामेव निर्जगाम ।
 
,
 
निर्गत्य च प्रसरत्यपि प्रणामलालसानां वसुमतीपतीनामुन्भेषिणि चूडा-
मणिमरीचिजालात पे ससम्भ्रमावर्जित मकुटप्रच्युता पीडकुसुम दोलायमान मधुकर-
1. L. about 7 letters.
 
24
 
2.
ॐ.
 
18
 
2
 
"}
 
29