This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
अथापरे युरुदयमारुरुक्षति क्षतजरागपाटले पादपातपरा (ग?) इतक्षुमितगर्ज.
 
1
 
2
 

 
द्वाहिनीपतौ पटुतरकरास्फालनोल्लस....न्यतेजस्तिरस्कारिणि रक्तचक्रधारिणि

घरणिमृन्मकुटघटित स्पष्टमण्डलामकिरणसंहतौ प्रतिक्षणविजृम्ममाणदुःसहोमणि

प्रतिपक्षता.... द्याधरमप्रस्तुतस्तुतौ सुभट इव रथवराधिरूढे परिवर्तयति

कालमात्मगत्यनुसारेण देवे सप्तसप्तौ कृतप्रभातमङ्गलाम (झले ? पढ

गर्भभारनम्थरेप्व....षु रचितभूषण मुदय गूढचन्द्रमण्डला मिवाल्पाल्पतारका-

स्फुरणां शरत्प्रदोष (ब ! वे) टां मौलवृद्धवर्षवराधिष्ठितामनुसृत स्थविरहंसबृन्दामिव

मन्दा.के देवीमुत्सुकप्रिय(जा ? जना )नुवर्तनमुहूर्तलम्बितपरिजनाङ्कनाससम्भ्र-

मानुयातां पुरस्कृत्य कालदूनेरिव गतिमनिष्टां गमयद्भिर्मर्तुराज्ञाक्षरैः प्रेर्यमाणाः

दु·खोपहत मुखत्विषः कृष्यमाणबलावयवा दक्षिणां दिशमभि प्रत्यद्य (?) सकळत्रा

अपि त्राणमन्यदलभमाना विन्ध्यागिरिमभ्यवर्तन्त मन्त्रिणः ।
 
१२
 
3
 
-
 

 
अनन्तरं च सर्वस्यामेवोर्व्यां सर्वक्षत्रपिशुनाः कालरूपा इव

चरितुमारभन्त (चो ! घो) ररूपा महोत्पाताः । तथाहि - प्रथममेव स्वभर्तृकाल-

क्षयासत्तित्रासादिवोदकम्पत क्षितिः । अभ्यर्णर (तो ? णो ) दयादिव व्यजृम्भन्त

द्विगुणमुद्गर्ज (य? )न्तो वाहिनीपतयः । जङ्गमभूभृच्छिरोमङ्गसौकर्य प्रत्ययोत्पा-

दनायेव केनाप्यमज्यन्त स्थास्नूनामवनिस्फुरितरत्नोपलानि भूभृतां शिरांसि ।

समरोल्युकराजलोकसाह।य्यार्थमिवर्तवः सर्व एव स्वचिह्नलक्ष्याः समन्ततः

समं समाजम्मुः । अखिलमिव धरणिष्पृष्ठमाहवाङ्कणीकुर्वन्तः प्रसभोत्पाटित-

निरस्तवृक्षवीरुधः क्षुण्णपाषाणशर्कराः क्षणमपि नोपरे (मू ? मुरु) प्रस्वनाः

प्रभ्रमन्तः प्रभञ्जनाः। कालापसर्पा इव कालसर्पाः प्रसर्पन्तः सर्वपार्थिवा-

नामाविविशुः शय्यागृहाणि । अंटव्या इव दण्डविक्षेपा व्याघ्रादयः पुरा -
 
-
 
-----------------------------------------------------------------------------------------
[^
1]. L. about 20 letters.
 

[^
2.
 
].
[^
3.
 
].