This page has been fully proofread once and needs a second look.

अवन्तिसुन्निर्मयारी ।
 
विभ्रमा च मतमात ज्ञानपि भ्रमरीवाभिसरति । विद्युद्विलातरळा मेघ-

राजिरिव रा (ज) हंसानप्युद्वेजयति ।
जळानव्यन्धानपि मूकानपि क्षयिणोऽपि

श्वित्रिणोऽपि व्यङ्गानपि विरूपानीप वृद्धानपि क्लीबानपि कृपणानपि लुब्धानपि

मुग्धानपि निष्ठुरानपि स्वैरि (जीन जोड )पि हरति । असदृशानेक
दुर्जनोपभोग-

निर्दयकदर्शितापि नापत्रपते ।
 
निर्मयादविभ्रमा च मतमात ज्ञानपि
राजिरिव रा (ज) हंसानप्युद्वेजयति
 
"
 

 
किंबहुना । न गुणमपेक्ष्याभिवर्धते, ना(भिभषेपि दोषेण व्या वर्तते ।

तथाहि-अजातशत्रोर्घार्मिकतामनिलसम्भवस्याध्यवसायसामर्थ्य मर्जुनस्य पराकमं,

यमयोस्त्वतिमानुषरूपमनुरुध्यमाना शकुनिरचितमक्ष (प्यू? द्यू) तकपटं चारीकृत्य

क्षुद्रम(लो ? ली)काभिमानगर्वं दुर्योधनमतिनिर्भरमालिलिङ्ग लक्ष्मीः । किमनया

नाचरितमिन्द्रजालेषु किमनभ्यस्तं प्रलम्भनेषु, किमु शेषितं महापातकेषु,

किमगणितमकार्येषु, किमप्रवर्तितं वर्णसङ्करेषु, किमभिन्नं मर्यादासु, किमनुद्भावितं

मोहविलसितेषु, किमप्रतिहतं जालवर्मसु । रज्जुरियमुद्वन्धनाय सत्यवादितायाः,

विषमियं जीवितहरणाय माहात्म्यस्य, शस्त्रमियं विशसनाय सत्पुरुषवृत्तानाम्,

अभिरियं निर्दहनाय धर्मस्य सलिलमित्र निमज्जनाय सौजन्यस्य धूळिरियं

धूसरीकरणाय चारित्रस्य । चित्रीयते चेदं सीमन्तिनी विसंवादि वृत्तमस्याः ।

य ( ता? तो) यमेव पुरुषमेषा समाश्लिष्यति स्वयमेव तमुद्दामकामं परस्त्रीसहस्रेषु

योजयति । स (जापी ? दापि ) वारुणी हतेयमात्मनः स (म)क्षम सेवमानमुत्साहयति ।

गुणानपि दोषीकरोति, दोषानपि गुणीकरोति । अस्याश्च चापलातिशये प्रकान्ते

प्रस्तावोऽपि (नाचिराधीषा ? चिंषाम् ) । न वार्तापि करिकळमकर्णपल्लवानाम् । न

कथापि कदलिकाप्रान्तचारिकाणाम् । केवलमनार्यबु द्वेरेवैनामन व स्थितत्वेनानुस -

मस्ति श(स्ति ? क्तिः) । एवंविधापि चेयं दुराचारासकृयभिचारितापि स्वभाव-

चापलेन भूयोऽप्यसाधारणपुरुष कारभूषणैर्भवादशैरेव श (क्ष्य क्य) ते प्रत्यार्तुम् ।

धार्तराष्ट्रानुच्छ्रिष्मित (!) कपटद्यूत हारितापि खवरण्य वासविनिवृत्तैः पाण्डुपुत्रैः

प्रस्युद्धृतैवेयमपरिमित महामभृिभूतवाहिनीवर परिबृंहितमनेक शतसहस्त्रनाग संकुलं
 
"