This page has been fully proofread once and needs a second look.

आचार्यद ण्डिविरचिता
 
1
 
2
 
3
 
नाधिवसति, विरतविग्रहं मकरध्वजमापे पुरुषबुद्ध्या नाभिनन्दति । कुलासंग्रह -
शीलकुलिश (?) इत्यसुखोयमानव शके शशाङ्केऽपि नवसति । सुरभिगन्धसम्पन्न-
मन्यमसहमाने(नै?)व मन्ये महोत्पलेऽपि न पातयति पदम् । अङ्गीकृतमसुरस्नेहो-
पचार मित्यसूययन्त्येव नूनमसिधारातलेऽपि न चङ्कगते । तर्कयामि चास्याः सन्निधा-
नादेवावदातेऽपि चन्द्रमण्डले स्फुटीभूतः कळङ्कः, पावनेष्वपि कमलवनेषु प्रदीर्यते
रजोविकारः । स्वच्छेऽपि च कृपाणधाराजले ज....[^1] भेदनशक्तिः । त्यागशक्ति
मुत्कर्षिणीमिव दर्शयन्ती त्यागशीलानेव त्यजति । शूरैः सह शौर्यमिव प्रकाशयन्ती
विगृश्चैव तिष्ठति । विनीतेऽपि विनीततरेव तिरस्करोत्यनुराग.... [^2]व न सुखमास्ते ।
ह्रीमत्सु नितान्तह्रीतेव न रूपमात्मनोऽभिव्यनक्ति। धर्मरतिचण्डरागारतियन्त्रणा-
सहिष्णुतयेव(?) नावेशयति विद्वत्सु जळप..... [^3]म्युपैति प्रणयम् । अदीनेषु दीनसत्वा
शोलभेदादिव नावलम्बते मैत्री म ( ? ) (उ) च्छूितेषु क्षुद्रारोहितयेव ना(द्धि ? धि)-
रोढुं क्षमते । शाकट.... [^4]प्रतापम्लानं प्रश्रयमनुवेलमव किरन्ती प्रवर्तते ।
अम्बुगर्भा रागमिव विदाहदूषितलमाभिजात्यं प्रतिक्षणमवमृकाति (1) चरणमिवा-
नुरक्तमत्यधस्ताद्वर्तयति.... [^5]तनुतरं दधाति । ऊरुदण्डमिव स्थितमुपहित रुजालं
क्लेशयति । जघनमिव महानोगमावृणोति । उरमिव मध्यस्थं भग्नकलुत्वमुद्वति (?)।
नाभिरन्ध्रमिव गम्भीरं बावर्तमुपस्थापयति । स्तनतटमिव प्रवृद्धं बन्धयति ।
भुजपाशमिव मृदुमवाङ्मुखयति अधरमिव परिस्पन्दवन्तं क्षतवस्थन (!) मा-
पादयति। दशननिवेशमित्रा मलमघरतिरस्कार्यमारचयति । लोचनयुगळमिव स्निग्धं
विभ्रमेण योजयति। केशहस्तमिवाय तिमन्तं संयमयति । खरतरेषु चासौ खलेषु
पातिता धान्यपूलीव (?) दुर्जनवरणमात्रसंहृता निःशङ्कतां गता विफलीक्रियते ।
 
-----------------------------------------------------------------------------------------
[^1]. L. about 3 letters.
[^2]. ,, 15 ,,
[^3]. ,, 15 ,,
[^4]. L. about 22 letters.
[^5]. ,, 12 ,,