This page has not been fully proofread.

1
 
यत्र च लग्ना ज्वलनशिखेव तमवश्यं .... त्यैव प्रशाम्यति । मन्ये
च कालकूटस्यास्याश्च भगवत्या निप्पता ( ? ) निर्विषीभूतः स्वस्तिमानिदानीं
दुग्धसिन्धुः । अथवा नेयं काळकूटतुल्यकक्ष्या लक्षयितव्या, यदमुनैकस्येश्वरस्य
कण्ठमात्रं दूषितम्, अनया शतसहस्राणीश्वर राणां सर्वाकारं दूषितानि । सैषा
मन्दरोद्धृत महासमुद्रत्रीचिवलयवेगाम्फालन विजृम्भिताङ्गभङ्गज्व(रे ? रा ) महान्त-
मूष्माणमुद्वमति स्थानासनशयनेषु धृतिमुपगच्छति मुहुर्मुहुर्वेष्टते. भक्तं द्वेष्टि,
दृष्टिमुछ्रमयति, जीवितं च पर्यस्यमाना भयानकां दशामावाहयति, अचलक्षोभ-
तुमुल जलधिगर्भमूर्च्छमारुतातिरेक स्वीकृतेव ( क ? ) जातवातप्रकृतिर सङ्कसशीका
चानवस्थिता च क्षुद्रा च निष्ठुरप्रलापकारिणी च कृशवर्णा च कृतप्रलोभना
च स्वप्नरूपैर्विभ्रमैर्भृशं दुनोति । (कारता ? ) मुरगनायकस्य वासु केर्मन्दराकर्षण -
खेदविह्वलस्य निःश्वासनिज्वरविषाग्निधूममण्डलाग्मिकृतेव(?) सदसच्च न पश्यति,
परप्रणेयासतीमजखमालम्बते, महापयेऽपि स्खलति, नरपशुनपि समापतति,
अस्पृश्यानपि स्पृशति, अशुचिमप्यधितिष्ठति, चक्षुष्पद्रिश्च परिभूयते । सत्यमचल-
वृत्तेरप्युदग्रस्यापि भूभृतोऽस्याः समुद्भवे द्विजिह्वसंवेष्टनमतिघोरा च भ्रान्तिरासीत् ।
सर्वानेव देवान् ब्रह्ममुखान् परिभूय समस्तमाया सिद्धान्ततन्त्रतीर्थकरं नारायण-
मात्मनोपसृत्य भजमानयानयोद्धोपितमसाधारणं धाम् । अमुनातिमाये (न?ने) मां
रक्षता घोक्षजेनारभूतवमानतादिं नानाविधा (?) विडम्बनार्थपरा चेयं दुग्धराशे-
रपसृत। चटुलकटाक्षदृष्टिक्षेपोन्मादित पुरुषा स्वनिमित्तसङ्कल्पितानि विग्रहसंग्रहाणि
पश्यती वश्येव राजकुलेषु लीलावष्टम्भर सगल भ्रगति । सोप्म ( त ) येव जातिं
भ्लापयति । तेजोरूपतयेव वंशसन्ततिं दहति । तमोमयत्वादिव सद्भवनानि
मलिनयति । व्यभिचारितयेव महाकुलानि पांसुलयति । चित्रमिदम् अयशोदापि
बर्धयति (म?) बलम्, असुभद्रापि विजयमानुगुण्येनाकर्षति, अदमयन्त्यपि लोक-
पालानवधूय नलसारङ्गगुरुकरोति (?) । अमरैकसत्वाद ( ? ) पारिजातं रत्नाकरमपि
 
"
 
अवन्तिसुन्दरी ।
 
1. L. about 4 letters.