This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
1
 
स्तथापि क्षत्रकुलकुं..[^1]त्मब देव्या वसुमत्या राजलक्ष्मीर्युष्मति दीपिकाप्रकाशिकेन (!) च
 
2
 
3
 

यथासुखमसम्बाधरमणीयेन वर्त्मना मुक्ततद्रत न्द्रिताः प्रमोदनभाजा.. [^2]मिष्टानि वसूनि

स्वरतोऽर्थिवर्गः सुहृद्गणाश्च संव (र्जि : र्षि) ताः स्वनिर्विशेषं भोगप्रपञ्चैः । पश्यामि

नातः परं करणी ( ये ) ष्वन्यतरम् । उत सन्ततिप्रतिष्ठा .... [^3]स्वप्नदोहलप्रत्ययेन

स्निग्धादेशव्याहृतेन स्वचित्तवृत्तिप्रामाण्येन च महानुभावः कोऽपि देव्या गर्भवर्ती

कुलस्य निस्चारकस्तन्तुरिति शक्य मध्य (वानु ? वसातु)म् । अयमसावहम्, अस्ति हि

वचनम् 'आत्मा वै पुत्र: ' इति । असावेव यथाचिन्तितेन श्रेयसा योजनीयः ।

ततो मम च मस्पितॄणां च प्रजानां च बहूपकृतं भवति । स खश्व

इमनालोचन (र) मणीयमकाण्डमगुरं शरीरमाहवशिरसि क्षत्रकुलोचितेन वर्त्मना

व्ययीकृ(त ? त्य) शरदिन्दुमनोहरमासंसारस्थायि पुण्यतमं य (श:) शरीरममरलोक-

बिहारि चानेकाध्वरपरम्परा प्रार्थ्यमानम (य?) श्रमेण ( शरीरम् ! ) आसादयितु-

मिच्छामि । नेच्छामि दुःखायावर्णाय चैतरफळेबरं घारयितुम्' इति ।
 

 
अभिहितवत्यवसिते मनुजभर्तरि जानन्नपि

भर्तृस्नेहपरवता धैर्यस्तम्मिताभि पङ्गेण चेतसा सुमित्र:
 

 
तव्यवसायमप्रावये (?)

प्रत्यवादीत् – 'देव !
 

 
ज्ञात एव कातरस्य जीवितव्यमिवेतरस्य प्रियमरणे मर्तव्यमि(ता ? ति) ।

आर्तत्राणदीक्षया चाद्यापि न्यायनिर्व्यूढया यथार्थमूढः क्षत्रशब्द इत्येतदध्यन-

पलापमेव । न चेदमनारतं (धि ? नि)जगुरुसुहृद्वन्धुकृत्योपयोगात् कृतप्रयोजनेन

स्वतः पुनरधन्येनानियेनाशुना ( ? ) दुःखरूपेण चेतसा सम्प्रति रणयज्ञातां

गतेनाम्मना सङ्घाते(?) । न खल्वमहावराहो महीं समुद्धरति नाशम्भुरभ्रगङ्गां

धारयति, नाहिरण्यगर्भो भुवनत्रयीमुद्भावयति, नादुग्धोद घिस्सुधा माविष्करोति ।
 
"
 

 
-----------------------------------------------------------------------------------------
[^
1]: Labout 25 letters.
 

[^
2].
 
,, 15
 
,,
[^
3].
 
"7
 
,, 3
 
४३
 
"2
 

 
,,