This page has been fully proofread once and needs a second look.

द्वारस्थगळमहाननुभवन्ति, असीक्षेपनिरस्तितिक्षु ( ? )....[^1]सुपर चयन्ति, गात्राणि
सङ्कोचयन्ति, मस्तकेन महीं मसृणयन्ति, दास्यमव्युपगच्छन्ति, उच्छेषणमुपभुञ्जते,

मि.... [^2] धूनपवदन्ति, माहात्म्यमपहुचते, मित्राण्यमिद्रुह्यन्ति
 
, गुरूनपक्षिपन्ति,
 
3

प्राणान् विक्रीणते, स्तेयमाचरन्ति, मायाः प्रवर्तयन्ते, वृद्धिमुपजीवन्ति, कुष्य....
[^3]
मांसपिण्ड महानितपीति...[^4]त्(?) क्षपयितुमभिनिविष्टा दुर्मतयः । तदेवमेतदनेकाति-
प्रयासपरम्परावर्थ्यमान मध्यकस्मादेव क्षुद्रसङ्गतमिव विभज्यते, नोव....[^5]न्ति, नोव-
लालितं गणयति नानुवृत्तिमवबुध्यते न पक्षपातं पश्यति, न बहुमानं मन्यते,
सुलभविनाशकारणत्वाच्च निषेक एव व्यापद्यते, गर्म एव वा स्रवति,
शवीभूतमेव वा जायते, जातमात्रमेव वा नश्यति, शैशव एवोपरमति, यदि
कदाचित् कर्मबलेन कालसामर्थ्यादीश्वरेच्छया यहच्छया वा तावन्तमतिपतति
क्षेमेण नतिबंध्य (?) मध्वानमन भिरामया गभीरकासच्छलेन तर्जयन्त्या काळरा
वाजस्रस्रुतलालास्यन्दिवित्रसया सुनियोगतः रुकचग्रहं हटादाकृष्यते ।
 
कष्टं जराभिभूतस्य जन्तारन्त कसन्निकर्पोपसर्पण मयादियोपत्रे यात्रा ।
महाप्रयाणप्रयासचिन्ता(दिव ?) वैक्लव्यादिव जायते गतिसादः । दोण ( ? ).
दर्शनकर्माधिकारिणी जीवित एव कालदू ( त ? ता) गमन निवेदनार्थमन्तर्विशति
दृष्टिः। अक्षिगूहनहेतुजिज्ञामार्थमिवानुपतति स्थानभ्रंशदुःस्थिता भ्रुः । भूयोवयव -
शैथिल्यादचिरघवळरोमजालशबलायाः शयनैकरसायाः कम्बळ इव (ल )म्बते
चर्मसञ्चयः । पञ्जर इव राशकुन्त्यास्तातश्वासकासिन्या (?) स्फुटीभवत्यस्थिराशिः ।
विशदायन्ते नवयौवनक्षरण कुल्यावल्यः । परिणामदहनदग्धस्य यौवनस्य
 
-----------------------------------------------------------------------------------------
[^1]. L. about 20 letters.
[^2]. ,, 25 ,,
[^3]. ,, 3 ,,
[^4]. L. about 10 letters
[^5]. ,, 3 ,,