This page has been fully proofread once and needs a second look.

नाथमध्यतितरन्ति, पाताळमपि प्रविशन्ति, असुरविवराण्यव्यावसन्ति, मेरुशिखर-
मध्यारोहन्ति, विषधरैरपि कीडन्ति कुपुरुषैरपि व्यवह (र)न्ति कुंशरानपि
वशीकुन्ति मृगपतीनपि बघ्नन्ति विलासिनीहृदयाम्य प्यावर्जयन्ति... [^1]
प्याराधयन्ति नियतमुपायपृष्ठोषमा मनुष्याः । निरुपायस्य करगतमध्यश (क? क्य)-
मेवोपयोक्तुमित्यविह्वलमचलबन्धमचलं गुहासिंहबृहि.....[^2]
 
तेषां तु ... [^3]पथचिरविचारितमतिः सुमतिरभाषत - 'देव दैव (म) चिन्त्य[^4]-
मिति यदभिहितमर्थशास्त्रका रैस्तदेवेदमापतितं....[^5]मसाध्यं च सर्बपुरुषकाराणामा-
मर्दकप्रसादः । तदेवंगते परबल सम्भूतानुभावस्य रिपोरात्मार्पणेन प्रसादनमु....[^6]
 
संशयकरम्, इतरद् भोगात्यन्तविरोधि । तथापीदमेव शाखे....[^7]ययात्रोन निदर्श-
नेन निदर्शितम्, एकान्तपराजये सत्युभयतः प्रजाक्षयादधर्म्ये... [^8]स्तदादाय...[^9]
सारभूतं कोशवाहनमनभिज्ञेयं कश्चिद् दुर्गवनमाश्रिताः कालमेव प्रत.... [^10]देवीं वा
विन्ध्यगिरि(का ? कन्ज)रालयां [^11]शबराकुलित ( ? ) रचितनर पशुपिशितोपहारतुष्टामिष्ट-
वरप्रदान पण्डितां चण्डिकामाराधयिष्याम' इति । अपरे च मन्त्रिणो जीविते
( व ? च) सति भद्रमित्यस्यैव मतमुच्चावचामिरुपपत्तिभिरु चिन्वत ।
 
श्रुत्वा तु सत्त्वगुणमिव लब्धवृत्तिमच्छस्मित चन्द्रिकाच्छलेन दर्शयन्
विशांपतिः रामानुशयानुरूपां गिरमिमामुपादत्त वक्तुम् – 'अस्तीदमात्मशरीररक्षा-
कृते जनपदपुरमालिनी रत्नाकरवलयमेखला क्षितिरपि अनन्यमेव त अयं त्वस्य-
र्णायस्य (?) गौरवातिशय स्त्रिवर्गसाधनोपकरणतयाभ्यनुज्ञातः कृतात्मभिः, अन्यथा
 
-----------------------------------------------------------------------------------------
[^1]. L. about 6 letters.
[^2]. ,, 16 ,,
[^3]. ,, 4 ,,
[^4]. See 'अचिन्त्यं दैवम्' Kautaliyarthasastra VI-ii.
[^5]. L. about 20 letters.
[^6]. L. about 20 letters.
[^7]. A space for 3 letters is left blank here.
[^8-9]. The two lacunae cover about 17 letters
[^10]. L. about 8 letters,
[^11]. We may read शबरकुलरचित॰