This page has not been fully proofread.

आचार्य दण्डिविरचिता
 
मास्व: पप्रच्छ.
 
-
 
देव । देवदर्शनमभिलषामीति ब्रुवाणः कोऽपि मस्करी परिव्राड्
द्वारभूमौ वर्तत इति । अनुज्ञातेन च प्रवेश्यमान (म ? मा)घिमिर्नियमैश्च क्षाममध्व-
धूळिसिर्दुःलेश्च मलिनीकृतविग्रहमागृहीत पाद कादित नुपुस्तकाक्षमालिकाकमण्डलु-
त्रिदण्डादि कोपकरणमु
चघोणमल्पकर्णमानिन्नदृशं कृशकपो हमवनिपालः परिव्राज-
मपश्यत् । कृतयथोपचारश्च वेत्रासनोपविष्टमुत्सारित परिजनस्तमुपहरे सहा-
-' कथमसि (त्वे ? त्व) मेवागत' इति । सोऽब्रवीत्
– 'विदितमेव
देवस्य यथाइमेवंलिङ्गो मालवेषु नगर्यामनेकशिष्यगणपरि (ठु ? वृ)तस्त्वदा-
देशेन प्रतिवसामि । तत्र च माळवेश्वरो मानसारो नाम नरपतिरुस्खातप्रति-
रोपितस्त्वया त्वच्चरणकमळरेणुनिकर निचितम तिभरमिव दुःखदुःखेन शिरोऽवहत् ।
अमर्षज्वरजरितराज्यसुखारोचकः परित्यज्य सुरयुवतितुलितलावण्यमधिगतललित-
कथामपञ्चमञ्चितमृदुकथितहसितमभिजन विनयवन्तमन्तःपुरसुन्दरीजनमतनीयास
तपस्यवर्तत । तपसा च पुनरन्यजन्म फलदानोचितेन, दुःसाधमाकलथ्य फलमैहिकं,
महाकाळे महामांसविक्रय मकरोत् । आमर्दकेन भगवता शौर्यातिशयसन्तोषितेन
मवद्विजयाय कोऽपि निस्त्रिंशो दत्तः । स चोद्भिरति विषधर इव हुतवहार्चिष:-
पक्षिराज इव पतति पतनवर्त्मना, सुभट इव च खाम्बादेशेन दृष्टिपथे
तिष्ठतामनपहृत्य जीवितं न निवर्तते । तं च भुजसहायमासाद्य मन्दीकृत-
भवरप्रभावशङ्कः शङ्करगतमपि पारमैश्वर्यमाक्रमोपलभ्यमानमेव मन्य (मान) स्तवो.
पर्यमियोगाय (फ? ब)लसमुत्थानं करोति । परं तु देवः प्रमाण 'मिति ।
 
राजा तु जातवैमनस्योऽपि स्वभावधीरतया निगृह्य विक्रियां तु – ननु
श्रुतमविसंवादितात्मनोऽस्य वचनम् । अनुरूपं हि मानमयस्य महाभुजां
हृदयस्यारिपरिभवासहिष्णुत्वम् । उत्तमानां चात्मनिरपेक्षाणि साहसानि समर्थान्येव
दैवतान्यपि विस्मापथितुम्। अवन्ध्यसन्तोषाश्च देवता दुर्लभानपि कामानुपहरेयुः ।
अतोऽमुष्मिन्नौपयिकममर्त्योपस्थितेऽतिपातिन्यर्थजाते विचिन्त्यताम् । आगमानु-
सारप्रवृत्ता च बुद्धिरनुगच्छति सर्वत्रैवावकाशम् । आकाशेऽपि विचरन्ति, अम्बु-