This page has been fully proofread once and needs a second look.

.
 
नभसः सुरचाप....[^1][चन्द्रकिबर्होत्तरारसिता भूम्योपगुप्तार्कगोगणा]गणतिथहप्तातक-
स्त्रजः (?) सुजातजातिजातयो मुदितमुग्घयूथिकावर्षन्नववार्षिकीलता ललितलाङ्गली-
कलिका मुकुलितनिचुळवथयः फलितपूतजम्बूपङ्कयः [विकचकदम्बचुम्बि]-
वाचालमधुलिहः सलिलकणस्यन्दिमन्दमरुतो रुतमुखर भेक भेरी भीमागमनिशीथा
निशिथिनीभेदाब्बदुर्दिनदिना(?) द्रुतमनोभिसारिकाभिद्रुतदयितोदवसिता विकसि -
तवलाका[ लीध ]बलितभुवो मिन्नसिलिन्धबन्धनाः सिन्धुरमा [^2]मन्दगर्जितघना-
घनस्तनयित्नवो नवजलसेकनिर्वृतिविनीत केतकी गर्भखेदाः पादचारक्षमश्यामल -
शाडूलवनस्थला नीलकण्ठनृत्तलीला विलासिनः सन्नपन्नगकुलाः कूलमुटुजो[^3]द-
कोद्रवत्सरित्तरङ्गिणीशताः शतमखगोपावलीप्रवालमेखलाघृतवनस्थलीनितम्ब[^4]पार्श्व-
विश्वविश्वम्भराङ्गाररूढसरसः स्य यौवनावनज[^5]पनवस्य सनदायिनो (?) दीयमान-
दानवारियोगनिद्रासुखाः सुखमया इव प्रादुरासन् प्रावृषेण्या वासराः ।
 
(तासु ? तेषु) च ग्रीष्मातपातुर त्रिलोकलक्ष्मीविश्रान्तिधारागृहेषु वर्षावासरेपु
कुटचकुडुलहारमालिनीमिर्लम्बकदम्बकाञ्चीदा मभिः [^6]केतकबर्हदन्त पत्र भूषित श्रवण-
पाशाभिर्मदमयललामलाञ्छितळला टिकाभिरागैरिक रागरञ्जितचरणपल्लवाभिः कुत-
लबलयिनीभिः सुन्दरीभिः कृतकिरातनितम्बिनीवेषविभ्रमाभिरटन्मृगेषु नट-
च्छिखण्डिपु स्फुटन्नीपेषु, रटन्निर्झरेषु, वर्षजलधाराघौतरलोपलतले पु
क्रीडापर्वतेपु बिजहार । धारारवद्विगुणबृंहितमदरागं च वार्षिकवृक्षवल्ली-
गुल्मगुलुच्छकच्छन्नमार्गेषु कृष्णागरुमार धूप सञ्चारोष्णेषु मणिदरीगृहेषु मत्तरामा-
द्वितीयो रेमे ।
 
-----------------------------------------------------------------------------------------
[^1]. L. about 3 letters.
[^2]. A reads मन्द्र॰ page 18. Shall we read सिन्धुरामन्द्र॰
[^3]. ,, दकीद्रवत्॰ ,,
[^4]. Areads पार्श्वापार्श्वविश्वम्भराङ्गावरूढ॰ page 18.
[^5]. ,, पवनस्य.... सन॰ ,,
[^6]. ,, केतकदन्तबर्हपत्र॰ ,,