This page has been fully proofread once and needs a second look.

२८
 
आचार्यदण्डिविरचिता
 
T
 
2
 
3
 
कीडया । तत्प्रधानाङ्गेषु च [स्फुटगद्गदगम्भीर मेदादिस्वरेण] निगृहीतामुक्त संज्ञेन

सलिलवाद्येनानेकमधुरकरणरमणीयेन रममाणं रमण्यः काश्चित् करपल्लब-

सम्पुटोत्पीडितमुक्तैः [प्रीतिपल्लवद्रवैरिवैनं धाराजलैः] ....गुरशृङ्गकोणमुखमुक्ताभिः

कुङ्कुम जलधाराभिरनपन्नगमुख शिखिशिख भिरिवाबचकरुः । अपरा विपक्ष-

व्यञ्जितवि[लासरागरोषितः रक्त ] कटाक्षमालाभिरेव जिह्मनाम्नीभिः कौसुम्भ-

सरिद्भिरिव सरभसा विधुरायमाणमाचकृषुः । इतरास्तमसीव पयसि दुर्विभागगतयः

करतलकमलावष्टम्भप्रसृप्ता यादृच्छिकैर्नाम तच्चरणमूलघट्टनैः स्पर्शातिशयानुमेय-

मानप्रार्थनाप्रणिपाता न कृपणमन्वतिष्ठन्त ।
 

 
5
 

 
"
 

 
अवनिपो गर्विता व्याकुलयन् मुग्धाः सन्तारयन्, भीताः समाश्वासयन्,

कुपिताः प्रसादयन्, मुदिताः प्रोत्साहयन्, प्रस्थिताः प्रतिरुन्धन् कासांचिदु-

त्पलाशां वल्लीमिव सफलयन्, कासांचित् पद्मरागं रत्नमिव सम्पादयन्, कासांचिद-

मन्दमारममनो(?)रंशुकान्यलक्ष्यगतिराक्षिपन्, कासांचित् कमलरजस्सङ्गधूनन-

च्छलान्निरञ्जनस्निग्धताम्र तरळताराणि नेत्रोदराणि चुम्बन्, कासांचित्

कामायतनेषु कामशरानिवादृश्यपातान्नखानपयन्, निबिरीसविलासश्चण्डातक-

परिहितः पर्याकुटिलकुन्तकोत्तरापाङ्गलोचनः कुङ्कुमरागलोहि तौघलताङ्गः सन्त्रासित-

सकलराजहंस निवहो विहृत्य समरादिव सरसः सह (प्रयाभिज्ञं ? प्रियाभिर्जय)-

श्रीभिरिव निर्जगाम जगाम च ।
 

 
6
 
,
 

 
,
 
1.
 

 
Our Ms. reads वाद्यानेक.
 

 
2.
 

 
L. about 14 letters.
 

 
3. Our Ms. reads विलक्ष,
 

 
मज्जनानन्तर मनुष्ठितयथोचिताभिषेक मङ्गलो यथाविध्युपस्थाय तिग्मभानुं,

भगवन्तमुपास्य चित्रभानुम्, अभिराध्य च देवं देवकीसूनुं सह सुहृद्भिस्त्वगनु-

सारिणा सुरभिचन्दनरसेन कृतसमालम्भनः कुशलसूदसाधितेन शोषनकरूपनप्रक्षा-

"
 

 
4. A reads आचुक्रुशुः• page 16.
 

 
5.
 

 
अवनिपोsपि
 

 
"
 

 
6.
 

 
आमजना.
 

 
""
 

 
"}
 

 
""