This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
इव भोगिनिलयमखिललोकधृतिकरः, कुसुमायुष इवोज्ज्वलप्रमदवनमात्सगुणाभि-
भूतफाल्गुनश्रीः, चक्रवाक इव पद्मालयं मण्डलैकगतिरध्यतिष्ठद् आत्मयशःकुमुद्-
भूषण भुवनसरः क्रीडैकरा जहंसो राजहंसो नाम राजा ।
 
1
 
यमतिमानुषाकारसम्पदमसह्य(पा पौ) रुषं च हरनयनहुतवहोष्मानुबन्ध-
सम्भूतप्रतापशमनं पुनर्जातमिव मीनकेतुं मेनिरे प्रजाः । येन च गोवर्धनघरणी-
धरघारणोद्दामदामोदरदर्पदमनायेवारोपितभुवनभार मघरी कृत मे रुगौरवं भुजभूघर-
युगलमनारतं बिभराञ्चके । यश्च नयनाघरकरचरण प्रभाभिरभिनवबन्धुजीव-
पाटळा मिर्निजवक्षःस्थलनिवासलाभनिर्वृत
लक्ष्मी विस्मृतानि कदर्थयाञ्चकारेव कमल-
काननानि । यस्य च मत्तमातङ्गतुङ्गकुम्भकूटपाटनेषु सुभटमण्डलपृथुलोरः कवाट-
भित्तिभेदनेषु वरतुरगबलप्रलयसागरोमिव्यावर्त्तनेषु स्यन्दन वृन्दबज्रपञ्जरभञ्जनेषु
च व्यापारितः तदायासपिपासित इव समरमण्डलेषु बाहुदण्डो मण्डलाग्रमेचक....
पुञ्जकचकितः केतकीमुकुलधूलिधवक्रमरियशः क्षीरसागरमशेषमाचूचुषत् । यश्च
सम्यक्प्रणीयमानवर्णचतुष्टयोऽपि क्षीरसागरप्रलयपू.... यशाः सर्वश्वेतं जगच्चकार ।
यस्माच्च सर्वस्वमर्थिनोऽभयमरयः पराजयमिन्द्रियाणि कदर्थनां कलिरास्यं
सरस्वती, हृदयं मित्रवर्गः, सर्वमेव च शरीरं मह। [ पुरुषलक्षणानि प्रत्यव].].....
दन्धगजघटाभिः कण्ठरज्जुकपणखण्डितत्वचो गण्डमद सिन्धुरंहो जर्जरितजटिल-
मूलसंहतयः स्थूलकरावऌनकवालप्रवालमुण्ड[ मूर्द्वानो द्धृतप्रसून मुकुलपल्ल]...लझ-
ङ्कार मिलितवल्लरीविश्लेषविषण्ण मदविदाइविनोदाम्यमस्तकषात भग्नस्कन्धमुक्तरटिताः
 
4
 
5
 
G
 
1. A reads व्रत.... पुन• page 11.
 
2. L, about 2 letters.
 
3.
 
#1
 
4 letters.
 
3
 
5
 
"}
 
·
 
4. L. about 6 letters.
5.
 
6. A reads विनोदाज्य. page 11.
We may read अभ्यस्त मस्तकाघात•
 
14 letters.
 
2