This page has been fully proofread once and needs a second look.

प्रदक्षिणीकृत्य हेतिगर्भमञ्जलिमुपा] रचयत् । उत्पतनरंहः मेङ्गोलितप्रालम्बहार-
जाल चलबाला कमाला बह लखन प्रभाम्बुवाहवाही सहसैव दिवस[^1].... [तेस्तु लोकोऽति-
मात्रविस्मयविस्मृता]न्तरात्मा निरन्तरोदञ्च दुचरो (त! मा)ञ्चपुञ्जकबुकितश्चिन्ताम् ।
 
अथ चित्रीयद्वलात्कृतचित्तसङ्गतः कथेतिहासरसास्वादरसिकः स्मित-
पूर्वामिभाषी विशे[^2]...[ल्यवन्ध्यवागलभ्यरन्ध्रस्थूललक्षो ]वि (ल ? )क्षणः[^3] कलासु,
विनीतो विद्यासु, विस्रब्धः सुहृत्सु, विमुखः पापेषु, सुभगः सुकुमार-
चतुरः संबिभागी कृपालु शीलवानुदारसत्त्वः सत्यरतियोलाभिज [नो
विश्वामित्र]गोत्रः कृती रामसर्मा नाम बालमित्रं चित्तानुवर्तनेषु[^4] दा(धो ? सो)[^5]
दुर्नयनिवारणेषु गुरुर्विम्भेषु हृदयमसुभिरपि स्पृहणीयायां प्रियभूमौ किल
दण्डिनमवादीत् । ननु गौरीपुत्रस्यापि प्रत्यक्ष एवायम् । अध्यक्षयद्भिरप्यश्रद्धेयो
गरीयानतोदयो यथेदमभेसर: कुसुमितलुज्जिहानेन ( ? ) मिहिरमण्डलानुकारिणा
रक्त पुण्डरीकेण पुनरमुष्य पुष्करस्य परिणतिः पुष्करेक्षण चरण पद्मसम्पातानन्तरं
केयूरिणी किरीटिनी मण्डलिनी मण्डलामणी (चे? चो) दगान्मरुत्वत्पथम् ।
अद्यत्वेवं पुनरीहृशानामसुलभदर्श नत्वादलघुविस्मयप्रसरभारपीडितं नो हृदय-
मलमसि खल्वनुमानगत्या विदूरमुनेतुम् । अत इह कथमवकल्पयत्यत्रभवतो
मतिरिति ।
स तं प्रत्यवोचत् – सखे ! न (तु ! नु) सर्वेषामेव नः समानं दर्शनम् ।
इयदिह शक्यमुनीयाबगन्तुम् – 'एष कोऽपि नभश्चरेश्वरः कस्यापि रोषणस्य महर्षेः
पुष्पसम्बन्धापराघापकारितादनुव्याहारादम्बुरुहत्व मवाप्याम्बरादम्भसां निधौ पतितः
 
-----------------------------------------------------------------------------------------
[^1]. L. about 4 letters.
[^2]. ,, 2 letters.
[^3]. May we read विचक्षणः॰
[^4]. A reads चित्तावर्जनेषु. page 9,
[^5]. ,, दाने॰ ,,