This page has been fully proofread once and needs a second look.

मापूर्य स्खत्वद्गुणप्रेमप्रस्नुतानां त्वन्मातॄणां स्तन्यमिदम् । अतिबहुत्वादनदासां प्रत्येकं
स्तनपानयत्नगौरवं तव स्याद् अतोऽस्माभिरेकत्रैव संभृतमिति प्रजिषाघाय ।
एवंविधाश्च सम्मानभाजः[^1] प्रतिमासं प्रतिपक्षं प्रतिदिनमित्यवर्त्तयत् पृथिवीपतिः ।
 
च तथानुगृह्यमाणो[^2] गन्धमादनप्रभृतिमिभिश्च[^3] वरकृतैः संस्कृतप्राकृतानां
च काम्व्यानां लक्षणैर्दक्षिणापथं सनाथमकरोत् । नृपतिनिर्बन्धपरिणीतश्
ब्रह्ममयान् समग्रवाङ्मयाधारभूताननन्तमूला नचलकुलस्थितिविहितसन्निवेशानम्बु-
राशिगम्मीरानुज्ज्वलराजहंसोपग्रह प्रकाशतेजसो लोकानिव श्रीन् सिंहविष्णु-
मनोरयाथातिलोभना म्नस्तनूजानजीजनत् । येषां गृहेषु प्राचीधीतपटुब्रह्मघोष: स्थान-
व्याख्यायमानसर्वशास्त्रध्वनिः अङ्गनाजनचरण पद्मजल्पाक नूपुराहत महृतभवनदीर्घि-
का कलहंसकोलाहलः सकलातिथिसार्थसन्तर्पणकलकलो, गन्धपरिमळभ्रान्त-
भृङ्गमण्डलीङ्कारातिर लङ्कृतिरभिमतगृहदेवाराधनपर
पुरन्त्ध्रिमण्डलारब्ध बहुविधोत्सव-
स्वनश्च पल्लवदानशक्तिघोषणापटह इव दिवानिशमिश्ञ्चितस्त्पद चतुरसञ्चर[^4]-
त्सरस्वतीभूषणरवमन्थरो दध्वान ।
 
मध्यमस्तु तेषां मनोरथ[^5] इव चिरेणोपपन्नः कलिजिगीषोधर्मस्य
माहात्म्यवतो महितमहाशब्दौघपूरितान् महीभृन्मानितान् मर्यादारक्षणोचितान्
महागुणरत्नराशिभाजो महासत्त्वान् महोदधीनिव मध्यमो लोकश्चतुरो
दामोदरभवदास सिंह विष्णु (वीर) दत्तनाम्नो ब्रह्माधिष्ठितान् सुतानलत ।
 
तेषां तु कनीयसो निसर्गशुद्धवृत्तस्य वीरदत्तशर्मणो ब्रह्मर्षे र्वसिष्ठस्ये
 
तु
 
बा
-
वा
रुन्धती सखीतीनाम [[अग्र]गामिनी[^6] गौरी नाम माठरसगोत्रा ब्राह्मणी
गृहिणीपदमध्यतिष्ठत् । स तस्यामनेकदुहितृजन्मजातोद्वेगशान्तये तन्तुमेकं
 
-----------------------------------------------------------------------------------------
[^1]. May be read सम्माननाः॰ [^4]. Read अञ्चितपद.
[^2]. A reads तथागृह्यमाणगन्ध॰ [^5]. A reads तेषां मनोरथो मनोरथ॰ page 7.
[^3]. ,, प्रभृतिभिः श्रीवर॰ page 7. [^6]. ,, नाम कामिनी॰