This page has been fully proofread once and needs a second look.

हरया सर्वकलाविदग्धया सर्वभाषाप्रवीणया प्रमाणयुक्तया ललितपदविन्यासया
चतुरहद्यालङ्कारया विशुद्धजातिवृत्तया सरस्वत्या स्वयंवर (ए ? इव) कन्यकया
स्वयमुपेत्य सस्नेहमस्वज्यत । को हि नाम भगवतीं भवितव्यतामतिक्रम्य यथा-
समीहितेन साधयति पथा, यतः कौशिककुमारो महाशैवं महाप्रभावं गवां
प्रभव प्रदीप्तभासं भारविं रविमिवेन्दुरनुरूप्यदर्श[^1] इव पुण्यकर्मणि
विष्णुवर्धनाख्ये राजसूनौ प्रणयमन्वबध्नात् ।
 
एकदा च मृगयां गच्छतामुना नीतस्तन्निर्बन्धादस्वकुलसमुचितमहुतशेषं
मांसमा ....[^2] नयैव लज्जया पित्रोरन्तिकमनु(प)सृत्य तीर्थयात्रा प्रसङ्गेन
दिगन्तराण्यभ्रमत् । भ्रमणशीलकीर्तेर्गाङ्गेयकुलध्वजस्य दुर्विनीत इति
वि[परीतनाम्नः].... [^3]गुणनिधिरमृतधाम्न इव कुमुदाकरो गोचरमगमत् ।
अमुना च साधुलङ्घनमूलमात्रमात्मनिवेदनादिसौजन्यं दर्शयता यशीकृत[स्तदभ्याशे
वसति । आर्येयमियं च व]....[^4] (त)स्य द्विजकुमारस्य मतिविलसितम् ।
विदितं नाम तस्य सदसद्विद्यमानकं भुवनेषु वयसा चासौ विंशतिवर्षदेशीयः"
[इति क्षितितलनिहितमौलिः प्रणम्याचार]......[^5]भृति भूपतिर्जातकौतूहलो हलधर
इव सरस्वतीतीर्थानि सम्भावयन् अनेकश्रीमुखपरम्परानुकृष्टमेनमात्मसादकरोत् ।
[माहात्म्यादतिशय[^6]दर्शिताराधितपुरु].... [^7]चतुराननस्यादिकवेर्द्विजोत्तमस्य प्राकृतानां
च वस्तुभेदानां तत्पूर्वं[^8] प्रकटयितुस्तस्य पुत्रीकरणेन दर्शितातिप्रसादस्तदनुरूपमन-
[ल्पपत्रपरि].... [^9]प्रादाच्च ब्रह्मदेयपरिमितम् । एकदा च प्राकृतगानानि
कानिचित्तेन प्रेषितानि श्रुत्वा परं प्रीतः स्त्रीसहस्रकुलं च काञ्चनाममत्रे[^10] सुरभि ....[^11]
 
-----------------------------------------------------------------------------------------
[^1]. Shall we read अनुरुध्य. See Avantisundari kathasara - अनुरुध्याकरोन्मैत्रीं॰ I. 23.
[^2]. L. about 8 letters. [^7]. L. about 10 letters.
[^23]. ,, 6 letters. [^78]. Areads पूर्वकं. page 7.
[^24]. ,, 8 letters. [^79]. L. about 10 letters.
[^25]. ,, 12 letters. [^10]. May be read काञ्चनाभमति॰
[^6]. May be read माहात्म्यातिशय.... [^711]. L. about 12 letters.