This page has been fully proofread once and needs a second look.

अथ स राजा सर्वदेवताराधनपरः परं धिषणोपपन्नोऽपि दिव्यानन्दजननेषु
कविगुणेषु प्रीतिमानभूत् । अविबुधोऽपि क(या?था) मृतरसं कलावृतमेषावण[^1] (?)।
 
एकदैनं सभागतमभिनवो गन्धर्वस्तुम्बुरुरिव जम्भशत्रुमित्युपावीणयत्--
 
दनुजपतिहृदयभूधरविभेदविज्ञातशक्तिनखकुलिशम् ।
जगदुदयहेतु विष्णोरवतु वपुर्नारसिंहं वः ॥
 
स इमामार्यामाकर्ण्य गुणकुतूहली तमप्राक्षीत्-- 'भद्र ! कस्यैतान्य-
क्षराणि विकटबद्धान्योजस्वीनि च लक्ष्यन्ते, कस्य चेयं वर्णरचना माधुर्यवती
प्रसन्ना चेन्दुकरकलिकेव श्रवणानन्दमुत्पादयति' इति ।
 
स तु सम्प्रणिपत्य व्यज्ञापयत्-- देव ! परमनुगृहीतोऽस्मि,
क्षणमवधानदानादनुगृहीततमः क्रियतामयं जनः । "अस्ति दिशि पश्चिमो-
त्तरस्यामार्यादेशशिखामणिरानन्दपुरं नाम ब्राह्मणानां महानावासः । ततो हि
निस्सृता सरस्वतीव ब्रह्मलोकादगस्त्यमूर्त्तिरिव पीतोद्गीर्णगम्भीरशब्दसमुद्रा
दक्षिणां णादिशमनुगृह्णन्ती सकलकितवसिद्धान्तप्रपञ्चमूलेन मूलदेवेन सख्युरचलस्य
कृते निवेशितमचलपुरं नाम गवप्रोदकपुष्पवासितकलमकाननायासिकभूमौ ( १ )
नगरमपरमिव धरणिगोचरममरलोकम्, आस्पदं पुण्यकर्मणामलघु विविक्तमन्त्र-
विस्तारसम्भृतधृतिरधिवसति कुशिकवंशवर्धनी सर्वातिथिरप्रतिग्रहीत्री महत्युदार-
रूपा ब्रह्मराशिर्ब्रह्मसन्ततिः ।
 
तत्रोदपादि भगवतो विधिवदाहृतसर्वसप्ततन्तुरूपिगोणो नारायणस्वामिनो
नाभिपद्म इव ब्रह्मैकघाम दामोदरस्वामिनामा तेजो(यमः ? मयः) कुमारः ।
स यौवनारम्भ एवातिसुभगाकृतिरकृतकवाक्यदर्शितपुण्यसद्भावया सर्वाङ्गमनो-
 
-----------------------------------------------------------------------------------------
[^1]. A reads मेणापन्न॰ page 6.