This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
अथ स राजा सर्वदेवतारानपरः परं घिधिषणोपपन्नोऽपि दिव्यानन्दजननेषु

कविगुणेषु प्रीतिमानभूत् । अविबुषोधोऽपि क (या ? था) मृतरसं कलावृतमेषावण (?)।
 

 
एकदैनं सभागतमभिनवो गन्धर्वस्तुम्बुरुरिव जम्भशत्रुमित्युपावीणयत् -
 
--
 
--
 
दनुजपतिहृदयभूषर
धरविभेद विज्ञातशक्तिन खकुलिशम् ।

जगदुदयहेतु विष्णोरवतु वपुर्नारसिंहं वः ॥
 

 
स इमामार्यामाकर्ण्य गुणकुतूहली तमप्राक्षीत् - 'मद्र ! कस्यैतान्य-
-

-
क्षराणि विकटबद्धान्योजस्वीनि च लक्ष्यन्ते, कस्य चेयं वर्णरचना माधुर्यवती

प्रसन्ना चेन्दुकरक लिकेव श्रवणानन्दमुत्पादयति' इति ।
 

 
66
 

 
स तु सम्प्रणिपत्य व्यज्ञापयत् देव ! परमनुगृहीतोऽस्मि,

क्षणमवधानदानादनुगृहीततमः क्रियतामयं जनः । " अस्ति दिशि पश्चिमो

तरस्यामार्यादेशशिखामणिरानन्दपुरं नाम ब्राह्मणानां महानाबासः । ततो हि

निस्सृता सरस्वतीव ब्रह्मलोकादगस्त्यमूर्तिरिव पीतोद्गीर्णगम्भीर शब्दसमुद्रा

दां क्षणां दिशमनुगृह्णन्ती सकलांकतवसिद्धान्तप्रपञ्चमूलन मूलदेवेन सख्युरचलस्य

कृते निवेशितमचलपुरं नाम गवप्रोदकपुष्पवासित कलमकानना यासिकभूमौ ( १ )

नगरमपरमिव घरणिगोचरममरलोकम् आस्पदं पुण्य कर्मणामलघु विविक्तमन्त्र-

विस्तारसम्भृतधृतिरधिबसति कुशिकवंशवर्धनी सर्वातिथिरप्रतिग्रहीत्री महत्युदार-

रूपा ब्रह्मराशिर्ब्रह्मसन्ततिः ।
 
9
 
2
 

 
तत्रोदपादि भगवतो विधिवदाहृतसर्वसप्ततन्तुरूपिगो नारायणस्वामिनो

नाभिपद्म इव ब्रह्मैकघाम दामोदरस्वामिनामा तेजो ( यमः मयः) कुमारः ।

स यौवनारम्भ एवातिसुभगाकृतिरकृतकवाक्यदर्शितपुण्यसद्भावया सर्वाङ्गमनो-

 
-----------------------------------------------------------------------------------------
[^
1]. A reads मेणापन्न.
 
page
 
-
 
6.