This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
अथ स राजा सर्वदेवताराघनपरः परं घिषणोपपन्नोऽपि दिव्यानन्दजननेषु
कविगुणेषु प्रीतिमानभूत् । अविबुषोऽपि क (या ? था) मृतरसं कलावृतमेषावण (?)।
 
एकदैनं सभागतमभिनवो गन्धर्वस्तुम्बुरुरिव जम्भशत्रुमित्युपावीणयत् -
 
--
 
दनुजपतिहृदयभूषर
विभेद विज्ञातशक्तिन खकुलिशम् ।
जगदुदयहेतु विष्णोरवतु वपुर्नारसिंहं वः ॥
 
स इमामार्यामाकर्ण्य गुणकुतूहली तमप्राक्षीत् - 'मद्र ! कस्यैतान्य-
-
क्षराणि विकटबद्धान्योजस्वीनि च लक्ष्यन्ते, कस्य चेयं वर्णरचना माधुर्यवती
प्रसन्ना चेन्दुकरक लिकेव श्रवणानन्दमुत्पादयति' इति ।
 
66
 
स तु सम्प्रणिपत्य व्यज्ञापयत् देव ! परमनुगृहीतोऽस्मि,
क्षणमवधानदानादनुगृहीततमः क्रियतामयं जनः । " अस्ति दिशि पश्चिमो
तरस्यामार्यादेशशिखामणिरानन्दपुरं नाम ब्राह्मणानां महानाबासः । ततो हि
निस्सृता सरस्वतीव ब्रह्मलोकादगस्त्यमूर्तिरिव पीतोद्गीर्णगम्भीर शब्दसमुद्रा
दां क्षणां दिशमनुगृह्णन्ती सकलांकतवसिद्धान्तप्रपञ्चमूलन मूलदेवेन सख्युरचलस्य
कृते निवेशितमचलपुरं नाम गवप्रोदकपुष्पवासित कलमकानना यासिकभूमौ ( १ )
नगरमपरमिव घरणिगोचरममरलोकम् आस्पदं पुण्य कर्मणामलघु विविक्तमन्त्र-
विस्तारसम्भृतधृतिरधिबसति कुशिकवंशवर्धनी सर्वातिथिरप्रतिग्रहीत्री महत्युदार-
रूपा ब्रह्मराशिर्ब्रह्मसन्ततिः ।
 
9
 
2
 
तत्रोदपादि भगवतो विधिवदाहृतसर्वसप्ततन्तुरूपिगो नारायणस्वामिनो
नाभिपद्म इव ब्रह्मैकघाम दामोदरस्वामिनामा तेजो ( यमः मयः) कुमारः ।
स यौवनारम्भ एवातिसुभगाकृतिरकृतकवाक्यदर्शितपुण्यसद्भावया सर्वाङ्गमनो-
1. A reads मेणापन्न.
 
page
 
-
 
6.