This page has been fully proofread twice.

सुतनुमध्यवृत्तिः, दर्दुराच(ल) इव घनोन्नखरपृथुनितम्बरत्नरञ्जिताम्बरः, किङ्करेश
इव स्थिरोरुदण्डधरः, सामाम्नाय इव शुभकरचरणलक्षणः, क्षणदाकरादिव
राजशब्दामर्षादाकृष्टकान्तिसर्वस्वः सर्वराजकहरिणयूथमथनराजसिंह: सिंहविष्णु-
(चर्मकि ? वर्मेति) नाम्ना नयसम्भावनाना (?) पल्लवेषु राजा बभूव ।
 
यः सम्भ्रमचलनचलितनारायणनाभिनलिनोद्धूतधूलिसङ्गधूसरितया
राज्याभिषेकदिष्टि[^1]वृद्धिपिष्टातकरजोराजिपिञ्जरितशरीरयेवानन्दरभसमादिसिंहासना-
क्रमे समालिङ्ग्यत श्रिया ।
 
यस्य च सकलजलधिजलवलयसमुल्लङ्घनाभिलाषुकेण सलिलतरणाभ्यास-
हेतोरभिषेकपयसि बहल......[^2]षि स्फुटितमिवासकृत् प्रतापानलेन । यस्य च
क्रोधदहनदह्यमानक्वथदरातिजीवितकबलग्रहसंभृत[^3]सन्तापयेव[^4] प्रकामपीततोयया[^5] .....[^6]
मौक्तिकोपलतलेषु मुहुरलुल्यत घनकठोरया खड्गलतया । येन च प्रथममेवाभि-
नवयौवनापू[र्यमाणभु]जशिखर .... वदेव[^7] शरणमितरस्य रणपयितस्य(?)। यस्मिंश्च
भूभुजि भुञ्जति भुजस्तम्भेन भुवं भोगभङ्गो भुजङ्गमानां न (च भुजङ्गमाः) । .... [^8]
कुण्डकानां न च कुण्डकाः । परस्परपातो गोलकानां न च गोलकाः ।
सूक्तातिक्रमो नक्तञ्चराणां न च नक्तञ्चराः । तमःप्रसरः प्र[ दोषाणां न च
प्रदोषाः] । .... [^9] नां, न च निस्त्रिंशाः । पादापीडा कण्टकानां न च कण्टकाः ।
द्विजिह्वाभ्यवहार्यता प्रभञ्जनानां न च प्रभञ्जनाः । रूपध्वंसो लुब्धानां न च
लुब्धाः [चित्रमासी]....[^10] प्रजानाम् ।
 
-----------------------------------------------------------------------------------------
[^1]. A reads दिष्ट. page 5. [^6]. L. about 20 letters.
[^2]. L. about 16 letters. [^7]. ,, 26 letters.
[^3]. A reads कबलसम्भृत॰ [^8]. ,, 26 letters.
[^4]. A reads सन्त्रपयेव. page 6 [^9]. ,, 16 letters.
[^5]. A reads वितते....कठोरया. page 6. [^10]. ,, 8 letters.