This page has been fully proofread twice.

शस्थितेव विततसितभवनसालमालापक्षराजिनी राजहंसीविलम्बिविक्रमललित-
नितम्बिनीकदम्बकनितम्बबिम्बप्रलम्बितमञ्जुशिञ्जानकाञ्चीदामा काञ्चीपुरं नाम
राजधानी ।
 
यया सह पितामहेनोन्मीयमाना सारलाघवादिवोपर्यभ्रमदमरावती[^1] । यस्यां
च भौमसुधासमुचिता दिव्यसुधास्वादलालसा [इव] रजनीषु रजनीकरमुल्लिहन्ति[^2]
लोलध्वजदुकूलजालरसनाः प्रासादपङ्क्तयः । यस्यां च मञ्जुवाचां[^3] कुञ्चित[केश]-
पक्ष[^4]च्छायातर्जितानि[त्रासादिव सतत]माक्रन्दन्त्युत्तंसमधुकरकुलानि । लीलाकटाक्ष-
लङ्घितानि शोकादिवाश्यामलिमानं (अ? ) दर्शयन्ति श्रव[णेन्दी]वराणि । स्मित-
[चन्द्राणि विहसितानि वैलक्ष्यादिव कु]ण्डलितान्यावृतश्रवणं शेरते[^5] दन्तपत्राणि ।
दन्तच्छद्रच्छायाकदर्शितानि दुःखादि(व त)निमानमुद्वहन्ति स्तना[वरणारुणां-
शुकानि । करकिसलयविडम्बितानि तापादिव शनैर्म्ला]यन्ति विभ्रमाम्भोरुहाणि ।
नखमणिमरीचिमञ्जरीपरिभूतानि खेदादिव मुहुर्मुहुरुच्छ्वसन्ति वि[लाम]-
कुसुमानि श्रोणिबिम्बला[वण्याभिभूतवर्णोत्कर्षाणि विषादादिव दशामन्त्यां
दधत्युत्तरीयाणि पादप][^6]ङ्कजसहजरागावधीरिता रुजेव च पदे पदे पतन्ति
पिण्डालक्तकरसः । यस्यां चक्रमक्षितमिव चन्द्रकान्तशिलातलेष्वन्धकारकबलित-
[मिवेन्द्रनीलाजिरेषु तदवमानलज्जाकृताग्नि]प्रवेशमिव पद्मरागभूमिषु तद्दाहवेदनाव-
गाढसलिलमिव स्फटिकभित्तिभागेषु सकलमिव दिवसमतितरलं भ्रम(न्ति?ति)
प्रतिबिम्बपतङ्गमण्डलम् ।
 
-----------------------------------------------------------------------------------------
[^1]. A reads उपर्यभूदमरावती. page 5.
[^2]. A reads उल्लिहन्ति रक्तया .......... page 5.
[^3] Our Ms. reads वार्यां. Page 5.
[^4]. A reads पक्ष्म॰ page 5.
[^5]. A reads शोरते रते दन्तप॰ page 5.
[^6]. A reads पञ्जर॰ page 5.