This page has been fully proofread once and needs a second look.

र्दिव्य विमानैरिवा[ मरगणाध्यासितैर्नलिनकादिभिर्महा ]प्रासादैरितरैश्च महापुरुषो-
चितैर्महापुरुषैरिव लक्षणोपपत्नपादजानुबाहुग्रीवा (क?)नासिकाललाटशिरोभिर्हदप्र-
कोष्ठस्क[न्धकूटैरश्लथक्षञ्ज]राक्षैश्च[^1]तुरवृत्तजातिभिरत्युदारैरु[६]प्रशक्तिभिः कृतवेदि-
भिरग्राम्यालङ्कारैरलकता सञ्जाततिलकैः लक्ष्यसुरभिनागैरशोकर।गब हैर्महा-
[भव्यै]र्विजृम्भितपलाशैः केसरिभिरर्जुनललितैर्माधवीमनोहरैः कामरथैरिव कान्त-
क(र्ण : र्णि) कारचकैः प्रीति ( प्र ? प्रा) सादैरिव चारुपारावतान्वितैः, रति-
नगरैरिव कृतसालपरिकरैः शृङ्गारान्तः पुरैरिवामलजातिकान्तिभिः, लीलाचित्र-
कारैरिव नानावर्णवल्लिकापरिवृतैः रागसमुद्ररिव स्फुरत्प्रवालपटलैः, धर्मबाला-
त्यैरव घात्रीसमधिष्ठितैः, कामुकैरिव रचितप्रियालकैश्चारकोद्देशैरिव
सहकारालयैः कौरवैरिव पाण्डुच्छायोदयदमनकैः, गौरी चरितैरिव प्रसवसम्पदा-
वर्जित श्रीकण्ठमनोहरैः भारतसमरैरिव कौरवकारणदलितरणोद्धतरसस्थूल-
करवीरबिहार, अविचारुचम्पकै: मगधैरिव कान्तपुष्पपुरजनवल्लभैः,
मवाङ्गैरिव नागवल्लीपूगशोभितः, सत्सङ्गतैरिवाम्लान करमणीयैः, गिरिमिरिवोनिद्र-
पुण्डरीक बनैरिन्द्रनगर विजिगीषया नन्दनवनैरिव सही तै बढ़ौराभ्यन्तरैश्च
वर्धितप्रमदाजनप्रमदैः प्रमदबनैर्निदाघमिया शरणागतं शिशिरमिवामिपालयन्ती,
मथनायासगलितलावण्यैर्वर्धित पृथुरोमभिरमृतहठापहारसाहसकृते सर्वसुरगणेन
स्वभवनकुटुम्बिन। युगपदेव धर्माधिकरणे व्यवहर्तुमम्बुराशिमिवागत्य बहिर्निविष्टैः,
ज्वलतेव बडवामुखेन कमलकाननेन परिगृहीतैः, रविकररसभरणविहतिकृत-
बहलकलकलमिव कलविरुतिमद कलम निभृतगतिजलविहगकुलं वहद्भिः, अनेक-
पकुलविहृतिभिः अवनतमित्र जलघरजालपम्बुपा(ट?न)लम्पटं दर्शयद्भिर्नभःस्थल-
विशालैस्तटा कमण्डलैर्मा व्यमान सस्यपरिकरा मरतकवेदिकाहरितकमलिनीपला-
-----------------------------------------------------------------------------------------
[^1]. Read कुञ्जराक्षैः.
[^2]. A reads नस्यपरि. page 4.