अवन्तिसुन्दरीकथा /229
This page has been fully proofread once and needs a second look.
नातिपोडं निगरुडवो न्यपतत् ( ? ) । नियतिविलासविस्मितेन च मयोपसृत्याय-
मादराद् गृहीत्वा धाभ्याः सन्निधिमनायि । निरूष्माणमिव च तां निँशाम्प
पुनरस्य जननीसन्दर्शने सुचिरता निष्पन्नयत्वेनायमपि नावत्वरभिदानी-
मसुभिरपोषितः कर्तुमितिद्य (?) मत्वा पथि पशुपालकुलेषु मिक्षितया क्षौर-
मात्रया निर्वर्त्यमानप्राणयात्रः क्रमेणेमं वामदेवाश्रमं समानीयत । भगव-
नियोगेन च महाराजोपान्तिकमिति । (श्व ? श्रु)त्वा च जनुषान्ध इव लब्ध-
चक्षुर्नष्टसुहृत्तनयदर्शनादम्यनन्दन्नरेन्द्रः । सहर्षविस्मयपरि ( जि ?)हितेन च
तस्मिन्नर्भके दत्तपुष्पोद्भवना(म)न्यन्यो (न्य चि? पि) ब्राह्मणकुमा रमे (नं? कं)
पुण्डरीकवर्णमादाय तमेवामुं वामदेवाश्रम ( पद ? )मुपससाद । (अस) चापि
विश्रमय्य पृच्छचमानः प्रचक्रमे (ण ?) क्रमेणाभिषातुम् । अहमध्यरका-
मृतीक (?) कीर्तिदेवो नाम ब्राह्मणस्तीर्थयात्रागतः कुमारीमभि-
गच्छन्नन्तरा कावेरीकच्छवर्ती कश्चिदार्यः पाटलिपुत्रकः सत्यशर्मा नाम
सर्वातिथिरनूचानः प्रतिवसतीत्याकर्ण्य तं दिहक्षुर्गत स्तमुद्विग्नवर्ण मलिन-
वेषया प्रोषितस्वस्त्येव ब्राह्मण्योपास्यमानं ज्वर इवाँगारे वर्तमानमद्राक्षम् ।
तेन चाहमतिथिपदादातिथेयेन्नापश्चितोपचिता काल्पखेदः (१) सुखोप विष्ट: सरसं
कथान्तरे तमब्रवम् । भो महाब्राह्मण ! चिरसंसृष्टादन्यदेश्यात् क्षणदृष्टोऽपि
स्वदेशजो भवति भजनं विखम्भस्य । यत इदमपरिचितविबन्धयाथाकाम्य-
मप्युचितमिव (?) हृदयमिति भवन्तमनुयुयुक्षते, क्षमश्चेद्विवरीतुं व्याहरिष्यसि ।
श्रुतो हि पाटलिपुत्रः । शुद्धिमद्देशमध्यपातिनो रम्या राजन्वन्तश्च मगुधाः ।
25