अवन्तिसुन्दरीकथा /192
This page has not been fully proofread.
१५६
आचार्यदण्डिविरचिता
·
विघ्ननायकौ देवं च सग्रहनक्षत्रतारकाचकं चन्द्रमसमुचरतोऽर्चयित्वा प्राच्या-
मच्छिनामां हरि (द ! त)च्छदां द्वात्रिंशदङ्गुलाया (म )मप्रमाणां वेणुयष्टि
निखाय तद्जसन्निधापितं समरुद्गणममरराजमाराध्य हुवा चित्रभानुमैन्द्रे-
स्त्रयोदशभिर्मन्त्रैरर्चित सर्वदिव्यस्थानदेवतायतन क्रमसम्प्रोक्षितावसथ मात्रापरिग्रहः
शुचौ देशे श्रीहितिलसर्षपमाषलाञ्छित मच्छिा प्रदर्भपूतं पुण्यगन्धसुरभिविष्टर-
म घिष्ठितः प्राङ्मुखाय पवित्रपाणये गुरवे गन्धप्रलिप्तान्तराभ्यां पात्राभ्यां
पाद्यमर्थ्यश्च दत्त्वा दत्तपुष्पगन्धमुदीचीनं भुवस्तलात् पवित्रमादाय धूपदर्शित-
मभिमुखप्रणामपूर्वमुपहरति हृत्वा तु गुरुः स्वमूर्ध्नि क्षिप्वाक्षतस्पर्शित-
बाहुः परित्यजति दत्तदक्षिणश्च यथाशक्ति शिष्यो मर्षयतु भगवानित्यमि-
वाद्यापरानपि यतीनभिवादयते । सोऽयमेवाभिवादनवर्ज शिष्यादपि
गुरोर्ब्रतबन्धे विधिः । एवं च बद्धव्रतो विंशमहश्शतं नियतदेश विधेय-
शय्यासनादिक्रियाकलापो वसतीत्यामन्त्रय क्षितीशं प्रातिष्ठत ।
,
-
उत्तरे द्यरुन्मिपत्येव कर्णगुरुकर्णिके दिनकमले कमलवनपरिमलिनि
मिलितवनलतोत्केसर कुसुमकोमलोदरे विरचितविभातमारुते कृतप्रतिकर्मा समं
जायया सानुयात्रस्तत्रैव मगधराजो जगाम । कृतोचिताईणौ च दम्पती
तमिन्द्रपूजोत्सवमनुत्रभूवतुः । इन्द्रसमं च सूनुमात्मनः समकल्पयताम् ।
वृत्ते च विश्वनसविधानविहिते विधौ स्थानस्थापितेषु प्रज्वलस्सु
प्रदीपेषु बलवत्सु देवगृहे धूपेषु लसद्वलिकुसुमेषु द्विजगणपरिवेषणव्या (इ ! पृ) -
तासु भ्रमन्तीषु पतिवलीषु बलिपिण्ड रोलुपेषु चापतत्सु वनमृगेषु महर्षे-
नियोगात् किमपि सम्पन्नापत्यसाधनं विघृतकल्प मन्त्रमद्विती (ये यं) प्रति-
पित्समाने पत्यौ, तपस्विन्याः कुतश्चिदुपलभ्य सन्निहितपितापुत्रकं किश्चि-
दासन्नं वन्यायतनं तामेवामतःकारमपत्यश्र (द्धा ! द्धया ) वनिपालपत्नी परिमित-
परिजना जगाम ।
.