This page has been fully proofread once and needs a second look.

मुक्तिविश्वाची मर विन्दगण्डूष मधु मण्डखण्डपरशुविश्राणि (त) रथवरषट्सइस मात्रश्रम-
साधितदानवमण्डलस्तानि निर्वेदकामोपदेशायमानगीतिः कामदेवो ययातिः (?)।
ययातेरजायत राजन्यवृषभो वृषपर्वदुहितरि शर्मिष्ठायां मित्रसुरतशापदानविष्ठुर-
जनकजराजालक शुकच्छन्नयौवनोऽपि रुचिराचारु (पुरु:) (?) । (पुरूपुरोः) पविरि-
वारिप वैतानां पौरजानपदरञ्जनो जनमेजयः । तस्य सु (तो) नय (श्च?च) क्षुः प्राची-
जयचिह्निताकः प्राचिन्वान् । प्राचिन्वतः पृपुजाततप्रथनऋतशक । लब्धप्रथितकर-
वीरः(?) प्र(व?वी)रः। विक्रमदमितधर्म लोप निर्मर्यादो दामदन्धरं(?) नमस्युना॑[^1]र्नाम ।
अस्य च दिवौकसाममयदोऽभू (द) भयदः । तदायनिरात्मतेजोवधूत शुद्धयां ( १ )

शुन्ध्युः । कस्य तनु (!) बहुविधनयावधानो बहुविधः । बाहुविधिरधिबाहुनि -

हितभूमिभारो भीमहेतिः संशयातिः[^2] । तस्य महद् (?) अ (भःप ? हंप ) तिस्तद-
पत्यमत्यादित्यते जास्तदनन्तरं प्रत्यपद्यत । तत्पुरस्तात् पुत्रिणामतृणमस्थापयत् (५)
प्रस्थापितसत्पथः प्रतिपक्षरौद्रो रुद्राश्वः । स घृताच्यां स्थाल्यामिव कुलप्रदीप(दु?
मुद) पादयदुग्रतेज (सा?) सं दशान मग्रम् । (स ) रणे रिपुमटञ्जुकुटिबन्धान्धकार
घूनन ज्वल (य?) नायां तक्षकात्मजायामजीजनदनन्तसारमन्तिनारम् । अन्तिनाराद-
रिकुलकाननकदनदावा(न)लमिलि (ला?लं ले)भे यमसुता सुतम् । त्रस्तवानन्त्रस्तवा-
नादस्तमानमादरे मकुटपाटलोष्णीषायमान पद्मद्यतिरवितथप्रसादनकोपितस्तत्तत्तन-
यस्तत्ते भुजंश भोगगभूरिणा भुजेन जपमन्युभुवं भुजेः[^3] (?) 1 तदुद्भवानां महार्णवाना-
मिव चतुर्णां पूर्वो बृहत्क्षत्र इत्यनुसर स्थितिम पश्चिमानमवाचीनवृत्ति (?)रनुकूलस्थि-
तिर्महेन्द्रश्रियमानशे । तस्य भरमुवाइ स्ववग्रहो हरेरिवैरावतः कल्याणसम्भेटेकरः
कलितपुष्करा (न)
नो ह (स्तिनं स्ती) नाम, यन्नामलाञ्छितं शूराणां राजधानी धरा-
 
-----------------------------------------------------------------------------------------
[^1]. The printed edition of the Avantisundarikathasara (edited by
Sri S. K. Ramanathasastri) reads मनस्यु, page, 17. But a palm
leaf manuscript of Kathasara in the T. V. M. Ms. Library, (No.
C. O. 1688) reads नमस्यु॰
[^2]. Kathasara reads शर्याति॰
[^3]. According to Kathasara the order of the Kings is as follows :-
इलिलः, दुष्षन्तः, भरतः, वितथः भुमन्युः, बृहत्क्षत्र॰