This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
1
 
बाणासनेष्विव रत्लासनेषु निष.... व राज्यफलेषु मूरिस्पृहाः । न खड़धारातोये-

ब्वि( ह ? ) व भृङ्गारधारातोयेषु पिपासवः । न लोहितचर्चापातनेष्विव कुकुमचर्चा

नोदश्रवणेषु पर्युत्सुका । न मृत्युदर्शन इव मृत्युदर्शनबद्धरागाः ( ? ) । न

ऋणपट्टबन्धेष्विव सामन्तपट्टबन्धेष्वभिमानिनः । न कलिका वनेष्विव प्रमद-

 

 
3
 
4
 

बनेपु....श्रमै....णो न श(री?) रतल्पेण्विव शेरतेऽङ्ग तल्पेषु सुखस्वप्रकाः सुज-

नोमान

केसरिवांसपञ्जर (!) जरासन्ध वृकोदरानुसारिगो धरापतयः । स तु त्वदा-

देशे नास्त्यमीषां दुष्करं नाम । शीथुनिवासरतोत्पलानुदधीनप्युदौर्बहुतभुजः (?)

सतृष्णमापिबेयुः । लता इव सकुसुमा दिशोऽपि स्फुरितप्रहतारकाः सलील-

मावर्जयेयुः । चक्रमिव हृदयमुदयरक्तं पतङ्गर (म) हुल्या भ्रामयेयुः । पुण्डरीक

मिव समृणालं सितमयूखं मृगाङ्कमुत्तंसकं रचयेयुः । महीसमुद्धरणमनि

महावराहभुक्तोज्झितमिति नाद्रियन्ते । कुलगिरिसमुत्सारणमपि चान्येन

धनुर्बलोच्छिष्टमिति न बहुमन्यन्ते । सकलभुवनभस्मीकरणमपि कल्पानल-

प्रहतमिति सुकुरुपक्षे (?) स्थापयन्ति का पुनरेषां पुरुषसिंहानामत्सल-

रिकुलग्रहणे(?) गणना । यत्तु निवृत्तिकारणत्वेनोप-यस्तं देवेन, तत्रेतबिन्स्यम् ।

समर (ण ? )मरणे संशयितः स्वर्ग इति शास्त्रस्यातिशङ्कायां यागादिष्वपि

तत् समानम् । प्रियं जीवितमिति तत्पूर्वमेव त्वत्वकृतैः (?) कृतम् । ऋणं

निस्तर(म ? )णीयमिति, बलवद् भर्तृपिण्डस्यानृण्यम् । अनुत्पन्ना सन्ततिरिति,

सुलभैव स्थास्नुस्त्र रिक्ता सन्ततिः (?) । अपूर्णाः कामा इति, नैतत्त्वय्यवनि-

करुपतरौ । न तृप्ता दारे (द्वी दिव)ति, रणत्यागान्निवृत्तपुंस्त्वस्य किं दारैः ।

पित्रोरेक पुत्र इति, तेन पितरौ जीबपुत्रौ यः सोष्मा । कुटुम्बम ( हा ना ) श्रमिति

कः सचेता बाह्यस्य कृते स्वमात्मानमुपहन्ति । तपश्चरामीति तञ्चिर-

 
....
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 30 letters.
 

[^
2
 
]. ,, 20
 
21
 
"9
 
,,
[^
3]. L. about 1 letter.
 

[^
4.
 
]. ,, 1
 
17
 
,,