This page has been fully proofread once and needs a second look.

६८
 
आचार्यदण्डिविरचित।
 
च (!) नातिमनोहराणि बामदक्षिणमध्यमानि चाम्बूकृतानि पार्धप्लुतानि च

दर्शयद्भिर्यथावकाशं यौवनोत्सेकेन किञ्चिदन्तरमतिक्रम्य पुनः लथस्खे दमपरिहरन्तः

सम्मर्देन च निरुध्यमानाः शनैः शनैः प्रजग्मुः ।
 

 
आघोरणाच प्रकीर्णेन समाहितोच्छितपूर्वकायेन हारेण च रमणीयेन

पणविकारेण नीचेर्गतं स्थूलोच्चयं मध्यं च मतङ्गजान् गगयन्तो लीलयानगतमर्ध-

नखगतं पद्गतमर्धनखगतमध्यर्धपद्गतं च यथावसरमु(त्प ? प)पा(त ? द)यन्तः

पश्यतात्मनां सविस्मयमनाः (?) क्षणं विलम्ब्य पुनरनुसुखं प्र (त) स्थिरे ।
 

 
शनैः शनैश्च जनपदाधिष्ठानजनितभूतिरविरलप्रचरितकरितुरगरथानीक-

शतसहस्रसंभृतोपत्रयो बहुक्षमोपादानतया बिभ्राणो वर्णविशेषानुद्दामदर्पभटसहस्र-

हेलोल्लासितासिपञ्जरमध्यपाति गृह्णन् दिशां दशानामपि चक्रवालमा लम्बितच्छत्र-

चामरध्वजपताकः प्रमदमनादरेण सकलस्यैव राजकस्य सरभसातिक्रमणमलिनित-

मुखरागस्य कृपणचूडामणेः शिरसि कुर्वन्न ( ? ) वष्टब्धस कलशैलाट वीसमुद्रद्वीप-

कच्छ: स्वेच्छावरुद्धपिण्डितसमग्रवाहिनीप्रवाहः प्रावर्ततातिवृद्धिकलुषो नहुष

इव दिवमप्याक्रमितुं पार्थिवो रजःसमूहः ।
 

 
स च तुहिननिवह इव शिविराबलाननकमलानि धूसरीचकार ।

तत्कमलनिहित (?) ग्रहामर्षादिवो मायमाणान्यर्कतेजांसि जमसे । तदन्तर्दाहोद्दाम-

तृष्ण इव मदजलानि यथाकामं पपौ । दानसुरापानमत्त इव खड़धारातलेषु

चस्खाल । खड्ड्चतविह्वल इव करिकुम्मस्थलीपु मूच्छितः पगत ।
पात । ततश्च
समुद्धृतकुम्भसिन्दूरको रससिक्त इव कर्णतालवालवृत्तवीजितः शनैः शनै

रुत्पपात। उत्पत्य च व्रणपट्टिका ग्रहणहेतोरिव ध्वजदुकूलचाराण्युपससर्प । ध्वजपट-

पवनपराहतश्च भूयः सुकृतीव स्वरेवारुरोह रेणुसञ्चयः ।
 
ततश्च
 

 
सञ्चितेन च सकञ्जर।जलोकमकुटरत्नरागच्छुरणपाटलपतङ्गमण्डलमुल्लसद्धूज-

पटानिलाकोटितामर पहंसकमंसमृणालिका वलयमिय ( ? ) कमलिनीपलाशमनेक-