2022-07-19 08:23:24 by arindamsaha1507
This page has been fully proofread once and needs a second look.
आयुर्वेदीये आस्तिक्यमित्यादिना ।
अत्रेदं बोध्यम्–उपर्युक्ता हर्षसामग्री सर्वापि नीतौ वर्तते इति यथा आनन्द-
प्रभोच्छलनम् अत्र साहजिकं तथा ईशप्रभायाः शास्त्रद्वारा ग्रहणाज् ज्ञानप्रभापि विवेक-
स्वरूपा नासुलभा इति हेतोः नीत्यनुष्ठाने एकाग्रतापि सिद्धैव । तत्सिद्धत्वे सत्वगुणस्य
अभिवृद्धिः भवति ! सा चेयं द्विविधा भवति, निष्कामोपासनया सकामोपासनया च ।
तत्र यदि सत्वगुणवृद्धिः सकामस्य उपासनाविषयस्स्यात् तर्हि सा तावन्मात्रमेव फलं
दत्त्वा विश्राम्यति । यदि च निष्कामस्य उपासना विषय: स्यात् तर्हि तेन सञ्चीयमान-
मदृष्टं सर्वं सम्पादयितुं समर्थं भवति इति जयमङ्गलाव्याख्याने समाधिनिरूपणावसरे
वक्ष्यते ।
तस्य बाह्यं स्वरूपम् आस्तिक्यं प्रविभज्यभोजनमित्यादि टिप्पण्यां अनुपद -
मुक्तम् स्मर्तव्यम् ।
सत्वगुणाभावे दोषः
यत्तु ज्ञानप्रभामुपेक्ष्य आनन्दप्रभामेव स्वायत्तीकर्तुं केचिद् वाञ्छन्ति । तत्तु न
युक्तम् । तत्र पूर्वमपेक्षितसत्वेनोक्तायाः एकाग्रतायाः समाधौ अभ्यहितायाः अभावः
रजस्तमसोरभिवृद्ध्या आपद्येत । तथा विवेकाभावेन च निष्फलत्वमपि सम्भाव्यते ।
नैतावन्मात्रेण विश्रान्ति:, किन्तु रजस्तमसी मनसः कामक्रोधाद्यनेकदुरपनेयरोग-
कारणभूते भवतः इति अग्रे निरूपयिष्यामः । तेभ्यो नयहीनत्वं नियतं स्यात् । ततः
जनावरागोऽपि अनुषक्तः इति । अतो ज्ञानप्रभाप्यपेक्ष्यते आनन्दप्रभायाम् ।
नीतिमत्ता येषु वर्तते ते यथा सन्त इति प्रोच्यन्ते तथा ऋषिशब्देनापि व्यव-
ह्रियन्ते शास्त्रादौ । तद्यथा -
वंशे विशालवंशानामृषीणामिव भूयसाम् । इति । ( नी० सा० १ २ )
नमः शास्त्राय महते त्रिवर्गस्यैकयोनये ।
नमस्तस्य प्रणेत्रे च कौटिल्याय महर्षये ॥ इति च । ( नी० स० ज० १ - १ )
शास्त्र कृत्सु ऋषिसंज्ञकत्वं नाधुनिककल्पितं, अपि तु रूढमिति शब्दकल्पद्रुमे