This page has been fully proofread once and needs a second look.

तस्मान्तीनीतिं पर्यालोच्य अनुष्ठिते ज्ञानप्रभासम्मिलितानन्दप्रभात्मकहर्षरूपसत्त्व-
स्योपलब्धिनियतैव ।
 
साधूनां प्रिया नीतिः
 
अत एवात्र सत्त्वस्य नैयत्येन नीत्यनुष्ठाने लाभात् साधवः कस्मिन्नप्यवसरे
नीति परित्यक्तुन्नाभिलषन्ति इति तत्स्वभाव उपवर्णित: “समशीतल" इत्यादिनाग्रन्थेन
मानसरामायणे -
 
सत्त्वगुणस्यास्पदं नीतिमत्त्व येन धार्यते तस्य निर्मलं मनः गृहत्वेन वृणुते
भगवानीश्वर इति तुलसीदासकृतमानसरामायणाज्ज्ञायते । एवं तस्मै यो द्रोग्धि स
ईशस्य कृपापात्रमपि न भवितुमर्ह इत्यपि सिद्ध्यति ! य ईशकृपापात्रं स एव
विश्वास्यः सर्वैः प्रणम्यो भवति । तदुक्तं भागवते
 
यस्य प्रसन्नो भगवान् गुणैत्र्यादिभिर्हरि: ।
तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ इति । ( भा० ७ )
 
तथा-चेश्वरे प्रसन्ने योगक्षेमौ भविष्यतः इति किन्नु वक्तव्यम् !! अत एव-
 
अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ (गीता )
 
इति उपपन्नं भवति । परन्तु मिथ्याज्ञानजन्यवासनया "भीष्मः खल्वयम -
वर्गः बहुभद्रकं मे लुप्येत" इति मत्वा नीतिमागमप्रमाणमनुमान प्रत्यक्षं वा ये
अवहेलयन्ति तेषां वचसि कृतौ वा निष्फलत्वात् अप्रमाणिकत्वात् असभ्यत्वात्
अश्रद्धेयत्वाच्च गौरवं किं भवेत् ? इति सुधिय एव जानन्तु ।
 
तदाह श्रुतिरपि - "यस्तित्याज सखिविदं सखायं न तस्य वाच्यपि भागो
अस्ति यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम्" इति । अतः साधवः
मिथ्याज्ञानजन्यां वासनां तर्कबहुलेन मनसा दूरीकृत्य स्वस्मात् नीतिमत्वरूपं सात्त्विकत्वं
नापसारयन्ति ।
 
### सत्वारोग्ययोः सम्बन्ध:
 
आरोग्यदृष्टया विचार्यमाणेऽपि इदमेव सिद्ध्यति यत् आनन्दप्रभासहचरित-
ज्ञानप्रभया नानाविधा मनसो रोगा दूरीभवन्ति । तदुक्तं भावप्रकाशे