This page has been fully proofread once and needs a second look.

रागद्वेष वियुक्तैस्तु विषया निन्द्रियैश्चरन् ।
आत्मवश्यैविधेयात्मा प्रसादमधिगच्छति ॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥
 
इति ॥
 
नीतिशास्त्रेण सत्वोपलब्धिः
 
ननु नीति शास्त्रस्य विचारे क्रियमाणे सति सत्वगुण: किमुपलब्धु शक्यः ? इति
प्रश्ने शक्य एवेति वदामः ! तथा हि -
 
उपर्युक्तगीतोक्तदिशा मनःप्रसादः आत्मवश्येन्द्रियाणां भवति । स च हर्षाद-
नतिरिक्त इति निर्णीयते, भावप्रकाशने "हर्षो मनःप्रसाद: स्या" दित्यादिना
उपलम्भात् -
 
तथा च नीतेः वक्ष्यमाणस्वरूपे पर्यालोचिते उपर्युपवर्णिता सर्वविधाऽपि हर्ष-
सामग्री तदनुष्ठाने वर्तते यतः प्रमाणत्रयं, देशकालानुकूल्यं शक्तिं च पर्यालोच्य
नीतिमता अग्रे पदं निधातव्यं भवति तेन फललाभो नियतः । अतः अत्रानन्दप्रभारूपो
मनःप्रसादोऽस्ति न वेति सन्देहस्यावसर एव नास्ति । ध्वनितं चैतन् नोतिसारे-
“आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती" इत्यत्र ।