This page has been fully proofread once and needs a second look.

पहास्यत्वं स्यात् । अतः प्रमात्मकव्याप्त्यादिज्ञानार्थं शास्त्रस्यावश्यकता स्वीकर्तव्या ।
तथा चार्थशास्त्रमपि तन्न्यायेन प्रमितव्याप्त्यादिनिर्णयायावश्यमारम्भणीयमिति
सिद्ध्यति ।
 
नीतिशास्त्रेण सत्वोत्पत्तिः
 
एवंरीत्या ईशसमवेतज्ञानप्रभा भावप्रकाशनोक्ता उपर्युद्धृता यदि शास्त्र-
चिन्तनेन प्राप्यते तर्हि तेन सत्वलाभ इति निर्णीतम् ।
 
अत्रेदं चिन्त्यम् । यत् सत्वमदृष्टद्वारा सहकारीति एतत्सहकृतं ज्ञानं धृति-
संवलितं प्रातिभं यथार्थंमेव उत्पद्यते । तदुक्तं वैशेषिकप्रशस्तपादभाष्ये—
 
आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेषु अतीन्द्रियेष्वर्थेषु धर्मांदिषु
ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगात, धर्मविशेषाच्च यत्प्रातिभं यथार्थ-
वेदनमुत्पद्यते तदार्षमित्युच्यते इति ।
 
योगसूत्रेऽपि “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” इति वदता
पतञ्जलिना स एव विषय उक्तः ।
 
'शौच सन्तोषे'ति सूत्रे तपस्स्वाध्यायेश्वरप्रणिधानानां नियमेषु अन्तर्भावितानां
पुनर्ग्रहणं धर्मविशेषस्याशुलाभप्रदर्शनार्थम् । इति ।
 
आनन्दप्रभोपयोगः
 
अत्रेदमाकूतम् । शास्त्रप्रसूतज्ञानप्रभा उपर्युक्त सत्वपदार्थघटकस्य आनन्द-
प्रभात्मकमनःप्रसादस्याभावे सुखाय शान्तये वा न भवति । यतो हि - शास्त्रप्रसूतज्ञानो-
पलब्धावपि ज्ञानिषु यदि शास्त्राज्ञामुल्लङ्घ्य विषयप्रवृत्तिः रागद्वेषमूला तर्हि सा दोष-
जन्यत्वात् अजितेन्द्रियत्वे पर्यवसायिनी न प्रसादजनिका भवति ? रागद्वेषयोरति-
प्रचुरत्वात् । तदुक्तं – “त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः" इति ।
 
ईशसमवेतशास्त्रानुमोदितज्ञानपारतन्त्र्येण जायमाना प्रवृत्तिस्तु न रागद्वेष-
मूलिका भवति । एवं स्थिते जितेन्द्रियत्वं, सत्वे स्थितिञ्च निष्पादयन्तीयं प्रवृत्तिः
मनःप्रसादं प्रापयति तेन सुखं शान्तिश्च भवतः । तदुक्तं भगवद्गीतायाम् -