2024-12-29 01:26:28 by anikethg
This page has been fully proofread once and needs a second look.
[ षष्ठमधिकरणम् ]
९६. प्रकृतिसम्पदः[^१] । ९७. शमव्यायामिकम्[^२] ॥ इति मण्डलयोनिः
षष्ठमधिकरणम् ॥
[ सप्तममधिकरणम् ]
९८. षाड्गुण्यसमुद्देशः[^१] । ६६. क्षयस्थान<error>बृ</error><fix>वृ</fix>द्धिनिश्चयः[^२] । १००.
संश्रयवृत्तिः[^३] । १०१. समहीनज्यायसां गुणाभिनिवेशः[^४] । १०२.
हीनसन्धयः[^५] । १०३. विगृह्याऽऽसनम्[^६] । १०४. सन्धायाऽऽ-
श्रीमूला
अथावापो यावत् त्रयोदशमधिकरणम् । तत्र षष्ठं मण्डलयोनिर्नाम । विजि-
गीष्वरिमध्यमोदासीनाख्यचतुरवयवं मण्डलं योनिः उत्तराधिकरणार्थस्य षाड्गुण्यस्य
विषयः । मण्डलं च तद् योनिश्च मण्डलयोनिः मण्डलात्मा षाड्गुण्यप्रकृतिरित्यर्थः ।
तत्र प्रथमं सूत्रं - प्रकृतिसम्पद इति । प्रकृतयः स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि
तासां सम्पदः अपेक्षितगुणपुष्कलता इहोच्यन्त इत्यर्थः ॥ १ ॥
शमव्यायामिकम् इति सूत्रम् । कर्मफलोपभोगानां क्षेमसाधनं शमः । व्याया-
मस्तु कर्मारम्भोपकरणानां कर्मयोगघटकः, तदुभयमस्मिन् प्रकरणे प्रतिपाद्यत
इत्यर्थः ॥ २ ॥ इति मण्डलयो निरित्यादि । एवं द्विप्रकरणं मण्डलयोन्यधिकरणं षष्ठं
समुद्दिष्टमित्यर्थः ।
अथ षाड्गुण्याधिकरणे प्रथमं सूत्रं - षाड्गुण्यसमुद्देश इति । सन्ध्यादीनां
षड्गुणानां संक्षिप्य प्रतिपादनमिति सूत्रार्थः ॥ १ ॥
तत् किमर्थमित्यपेक्षायां क्षयस्थानवृद्धिनिश्चय इति सूत्रम् । क्षयो ह्रासः
स्थानं <error>ताद</error><fix>तदा</fix>वस्थ्यम्, वृद्धिः उपचयः, तेषां निश्चयः स्वरूपावधारणम् । तदिहोच्यत
इत्यर्थः । प्रकरणमिदं पूर्वं चैकस्मिन्नध्याये समावेशितम् ॥ २ ॥
क्षीणकार्यं वक्तुं सूत्रम् - संश्रयवृत्तिः इति । प्रबलमाश्रित्य वर्तनमिति
सूत्रार्थः ॥ ३ ॥ समहीनज्यायसां गुणाभिनिवेशः इति सूत्रम् । समः शत्रुणा
सदृशशक्तिः, हीनः निकृष्टः, ज्यायान् उत्कृष्टः । आसु तिसृष्ववस्थासु गुणस्थापना-
ऽत्रोच्यत इत्यर्थः ॥ ४ ॥
हीनसन्धय इति सूत्रम् । हीनेन कोशदण्डभूमीः प्रदाय करणीयाः सन्धय
इह वर्ण्यन्त इत्यर्थः ॥ ५ ॥
विगृह्यासनम् इति सूत्रम् । शत्रुणा सह विगृह्य शत्रोर्धान्यादिप्राप्तिप्रतिघातं
कृत्वा स्वविषये स्थितिरिति सूत्रार्थः ॥ ६ ॥