2024-10-29 02:56:46 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
८८. अतिचारदण्डः[^१३] ॥ इति कण्टकशोधनं चतुर्थमधिकरणम् ॥
इति स्वराज्यसंरक्षणाधिकारः तन्त्राख्यः प्रथमो भागः
[ पञ्चममधिकरणम् ]
८६. दाण्डकर्मिकम्[^१] । ९०. कोशाभिसंहरणम् [^२] । ९१. भृत्य-
भरणीयम्[^३] । ९२. अनुजीविवृत्तम्[^४] । ९३. सामयाचारिकम्[^५] । ९४.
राज्यप्रतिसन्धानम्[^६] । ९५. एकैश्वर्यम्[^७] ॥ इति योगवृत्तं पञ्चममधिकरणम् ॥
------
श्रीमूला
अतिचारदण्डः इति सूत्रम् । अतिचारः अभक्ष्यभक्षणम् अगम्यागमनम्
इत्येवमादिः तन्निमित्तो दण्ड उच्यत इत्यर्थः ॥ १३ ॥
इति कण्टकशोधनमित्यादि । एवं त्रयोदशप्रकरणं दुर्गराष्ट्रकण्टकशोधनप्रति-
पादकं चतुर्थमधिकरणं समुद्दिष्टमित्यर्थः ॥
अथ योगवृत्तं नाम पञ्चममधिकरणम् । योगो विस्रब्धघाती तद्वृत्तं
तच्चोपांशुदण्डादिकम्। राजराज्यकण्टकविषय उपांशुदण्डादिप्रयोगेऽस्मिन्नधिकरणे
अभिधास्यते ! तत्रेदं प्रथमं सूत्रं - दाण्डकर्मिकम् इति । दण्ड उपांशुवधः तस्य कर्म
प्रयोगः दण्डकर्म तत्सम्बद्धमिहोच्यत इत्यर्थः ॥ १ ॥
कोशाभिसंहरणम् इति सूत्रम् । कोशस्य सुवर्णादेः अभिसंहरणं पूर्वत
आधिक्येन सङ्ग्रहणमर्थकृच्छ्रप्राप्तावित्यर्थः ॥२॥
भृत्यभरणीयमिति सूत्रम् । भृत्याः बुद्धौ शास्त्रे कर्मणि च साहाय्यदायिनः ।
तेषां भरणं पोषणं तत्सम्बद्धं भृत्यभरणीयम् ॥ ३ ॥
अनुजीविवृत्तम् इति सूत्रम् । अनुजीविनो मन्त्रिप्रभृतयः तैः स्वामिनि कथं
वर्तितव्यमित्येतदत्रोपदिश्यत इत्यर्थ ॥ ४ ॥
सामयाचारिकम् इति सूत्रम् ! समयो व्यवस्था आचारोऽनुष्ठानं समया-
चारमधिकृत्य प्रवृत्तं सामयाचारिकम् ॥ ५ ॥
राज्यप्रतिसन्धानमिति सूत्रम् । राज्यस्य प्रतिसन्धानं राजव्यसने सति <flag>तत्पुत्रान</flag>
भिषिच्य यत् परिचिन्तनममात्यैः क्रियते तदिहोच्यत इत्यर्थः इदमुत्तरं च
प्रकरणमेकस्मिन्नध्याये समावेशित<error>म</error><fix>म्</fix> ॥ ६॥
एकैश्वर्यम् इति सूत्रम् । एकस्यैव राजपुत्रस्यैकातपत्रमैश्वर्यं कर्तव्यम्
इत्येतदुच्यत इत्यर्थः । एकग्रहणं बहूनामैश्वर्यकरणे अराजकत्वप्रसङ्ग इति
द्योतनार्थम् ॥ ७ ॥
इति योगवृत्तमित्यादि । एवं सप्तप्रकरणं योगवृत्ताख्यं पञ्चममधिकरणं
समुद्दिष्टमित्यर्थः ॥