2024-10-22 07:51:52 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
प्रतीकारः[^३] । ७९. गूढाजीविनां रक्षा[^४] । ८०. सिद्धव्यञ्जनैर्माणव-
प्रकाशनम्[^५] । ८१. शङ्कारूपकर्माभिग्रहः[^६] । ८२. आशुमृतकपरीक्षा[^७] ।
८३. वाक्यकर्मानुयोगः[^८] । ८४. सर्वाधिकरणरक्षणम्[^९] । ८५. एकाङ्ग-
वधनिष्क्रयः[^१०] । ८६. शुद्धश्चित्रश्च दण्डकल्पः[^११] । ८७. कन्याप्रकर्म[^१२] ।
------
श्रीमूला
उपनिपातप्रतीकारः इति सूत्रम् । उपनिपाताः दैविकानि महाभयानि तेषां
प्रतीकारः ॥ ३ ॥
गूढाजीविनां रक्षा इति सूत्रम् । ये गूढं लञ्चग्रहणेन स्वामिनं प्रजाश्च वञ्च-
यन्त आजीवन्ति ते गूढाजीविनः तेषां रक्षा तेभ्यो देशस्य रक्षणमित्यर्थः ॥ ४ ॥
सिद्धव्यञ्जनैर्माणवप्रकाशनम् इति सूत्रम् । सिद्धव्यञ्जनाः मुण्डजटिलताप-
सवेषा धूर्ताः तै करणैः माणवप्रकाशनं माणवस्य प्रलोभनविद्यायाः प्रकाशनम् । तच्च
चोरादिग्रहणार्थम् ॥ ५ ॥
शङ्कारूपकर्माभिग्रहः इति सत्रम् । आत्मनः परान् प्रति परेषामात्मानं प्रति
च शङ्का द्विरूपा, रूपं सलोप्त्रदर्शनं कर्म सन्धिच्छेदादि एतैः अभिग्रहः चोराणां
ग्रहणमिति सूत्रार्थ ॥ ६॥
आशुमृतकपरीक्षा इति सूत्रम् । आशु मृतकस्य परीक्षा । किमयं स्वयं मृत उत
परेण मारित इति परीक्षणम् ॥ ७ ॥
वाक्यकर्मानुयोग इति सूत्रम् । वाक्यानुयोगः कर्मानुयोगश्चेति सूत्रार्थः । तत्र
वाक्यानुयोगः उपपत्तियुक्तैः सामवादैश्चोरपृच्छा । कर्मानुयोगः कशाप्रहारादिना
चोरविचारणा ॥ ८॥
सर्वाधिकरणरक्षणम् इति सूत्रम् । अधिकरणशब्देन लक्षणया अध्यक्षप्रचाराधि-
करणोक्ता अध्यक्षास्तन्नियम्याः पुरुषाश्च गृह्यन्ते । तेभ्यः सर्वेभ्यः प्रजानां धनस्य च
रक्षणमिति सूत्रार्थः ॥ ε॥
एकाङ्गवनिष्क्रयः इति सूत्रम् । एकाङ्गं हस्तः पादः कर्ण इत्येवञ्जातीयं
तस्य वधश्छेदनम् एकाङ्गवधः तद्युक्तो निष्क्रयः वधस्थानीयो धनदण्डश्चतुष्पञ्चा-
शत्पणादिः ॥ १० ॥
शुद्धश्चित्रश्च दण्डकल्पः इति सूत्रम् । शुद्धः चित्र इति द्विविधो दण्डविधिः ।
तत्र शुद्धः अक्लेशमारणं, चित्रः क्लेशमारणम् ॥ ११ ॥
कन्याप्रकर्म इति सूत्रम् । कन्याया अपुष्पितायाः स्त्रिया: प्रकर्म दूषणम् ।
तत्सम्बद्धो दण्डविधिरत्रोच्यत इत्यर्थः ॥ १२ ॥