2024-10-22 07:39:45 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
६८. दत्तस्याऽनपाकर्म[^१२] । ६९. अस्वामिविक्रयः[^१३] । ७०. स्वस्वामि-
सम्बन्धः[^१४] । ७१. साहसम्[^१५] । ७२. वाक्पारुष्यम्[^१६] । ७३. दण्ड-
पारुष्यम्[^१७] । ७४. द्यूतसमाह्वयम्[^१८] । ७५. प्रकीर्णकानि[^१९] ॥ इति धर्म-
स्थीयं तृतीयमधिकरणम् ॥
[ चतुर्थमधिकरणम् ]
७६. कारुकरक्षणम्[^१] । ७७. वैदेहकरणम्[^२] । ७८. उपनिपात-
------
श्रीमूला
मूल्यं दत्त्वा गृहीतं तयोर्विषये अनुशयः विक्रयविषयः क्रयविषयश्च पश्चात्ताप
इत्यर्थः ॥ ११ ॥
दत्तस्याऽनपाकर्म इति सूत्रम् । दत्तस्य धर्माद्यर्थे वाचा दत्तस्य अनपाकर्म
अप्रदानम् । एतच्च विषयविशेषे पुनर्हणस्याप्युपलक्षणम् ॥ १२ ॥
अस्वामिविक्रयः इति सूत्रम् । अस्वामी परद्रव्यव्यवहर्ता तेन कृतो विक्रयः
अस्वामिविक्रयः ॥ १३॥
स्वस्वामिसम्बन्धः इति सूत्रम् । स्पष्टार्थम् ॥ १४ ॥
साहसम् इति सूत्रम् । सहसा कृतं कर्म साहसं प्रसभकर्म ॥ १५ ॥
वाक्पारुष्यम् इति सूत्रम् । वाचा कुत्सनभर्त्सनादिकमित्यर्थः ॥ १६ ॥
दण्डपारुष्यमिति सूत्रम् । दण्डेन करणेन पारुष्यं परुषकर्म द्रोहो दण्ड-
पारुष्यम् ॥ १७ ॥
द्यूतसमाह्वयम् इति सूत्रम् । द्यूतम् अक्षक्रीडा समाह्वयः, अजकुक्कुटादि-
प्राणिदेवनम् तयोः समाहारः द्यूतसमाह्वयं, तत्सम्बद्धो व्यवहारः प्रकरणेऽस्मिन्नभि-
धीयत इत्यर्थः ॥ १८ ॥
प्रकीर्णानि इति सूत्रम् । उक्तविवादपदानन्तर्गतानि याचितकाद्यदानादि-
निमित्तानि विवादपदानि प्रकीर्णकानि, तान्यत्राभिधीयन्ते इत्यर्थः ॥ १९ ॥
इति धर्मस्थीयमित्यादि । एवमेकोनविंशतिप्रकरणं धर्मस्थीयमधिकरणं तृतीयं
समुद्दिष्टमित्यर्थः ॥
अथ कण्टकशोधनाख्यं चतुर्थमधिकरणम् । तत्रेदं प्रथमं सूत्रम् -- कारुकरक्षणम्
इति । कारकाः तक्षायस्कारस्वर्णकारादयः, तेभ्यः कूटकर्मकारिभ्यो देशस्य रक्षण-
मिहाभिधीयत इत्यर्थः ॥ १ ॥
वैदेहकरक्षणम् इति सूत्रम् । वाणिजकेभ्यः पौतवापचारिभ्यो रक्षण-
मित्यर्थः ॥ २ ॥