This page has been fully proofread once and needs a second look.

[ तृतीयमधिकरणम् ]
 
 
५७. व्यवहारस्थापना[^१] । ५८. विवादपदनिबन्धः[^२] । ५९. विवाह-
संयुक्तम्[^३] । ६०. दायविभागः[^४] । ६१. वास्तुकम्[^५] । ६२. समयस्या-
ऽनपाकर्म[^६] । ६३. ऋणादानम्[^७] । ६४. औपनिधिकम्[^८] । ६५. दासकर्म-
करकल्पः[^९] । ६६. सम्भूय समुत्थानम्[^१०] । ६७. विक्रीतक्रीतानुशयः[^११] ।
 
------
 
श्रीमूला
 
अथ धर्मस्थीयं तृतीयमधिकरणम् । धर्मस्था नाम धर्मशास्त्रज्ञाः धर्मशास्त्रानुसा-
रेण व्यवहारनिर्णयकर्मण्यधिकृताः । तेषामिदं धर्मस्थीयं तन्निर्णेयव्यवहारपदप्रतिपादक-
मित्यर्थः । तत्र प्रथमं सूत्रम् — व्यवहारस्थापना इति । कीदृशो व्यवहारः सिद्ध्यति
कीदृशो न सिद्ध्यतीति व्यवस्थापनमिति सूत्रार्थः ॥ १ ॥
 
विवादपदनिबन्धः इति सूत्रम् । विवादपदस्य निबन्धः पूर्वोत्तरपक्षात्मना पत्र
आरोपणं, तत्पूर्वकं चिन्तनमित्यर्थः ॥ २ ॥
 
विवाहसंयुक्तम् इति सूत्रम् । विवाहा अष्टविधाः ब्राह्मादयः तत्सम्बद्धो
व्यवहार इत्यर्थः । एतच्च प्रकरणं त्रिभिरध्यायैर्वितन्यते ॥ ३ ॥
 
दायविभागः इति सूत्रम् । दायः पितृपितृव्यादिधनं तस्य विभागः । अयमपि
त्रिभिरध्यायैर्वितन्यते ॥ ४ ॥
 
वास्तुकम् इति सूत्रम् । वस्तु गृहारामक्षेत्रादि तत्सम्बद्धं वास्तुकम् । इदमध्या-
यत्रयेण वितन्यते । तत्र तृतीयाध्याये उत्तरमपि प्रकरणं प्रवेशितम् ॥ ५ ॥
 
समयस्याऽनपाकर्म इति सूत्रम् । इदमहं करिष्यामीत्यभ्युपगमात्मा सङ्केतः,
इदमन कर्तव्यमिति बहुभिः सम्भूय कृतो वा सङ्केतः समयः । तस्य अनपाकर्म
त्यागाभावः इति सूत्रार्थः । इदं प्रकरणं वास्तुकप्रकरणीयविवीतक्षेत्रपथहिंसाव्युत्पाद-
नाध्याये व्युत्पादितम् ॥ ६ ॥
 
ऋणाऽऽदानम् इति सूत्रम् । ऋणग्रहणनिर्यातनसम्बद्धो व्यवहार इत्यर्थः ॥ ७ ॥
 
औपनिधिकम् इति सूत्रम् । उपनिधिर्निक्षेपः तत्सम्बद्धमनुष्ठानमौप-
निधिकम् ॥ ८ ॥
 
दासकर्मकरकल्पः इति सूत्रम् । अत्यन्तपारार्थ्यमासाद्य शुश्रूषका दासाः, भृत्यर्थं
शुश्रूषकाः कर्मकराः तेषां कल्पः तत्सम्बन्धी विधिः ॥ ९ ॥
 
सम्भूयसमुत्थानम् इति सूत्रम् । वाणिजकैरन्यैर्वा समुदेत्यारभ्यमा<flag>गं</flag> कार्यं
सम्भूयसमुत्थानम् ॥ १० ॥
 
विक्रीतक्रीतानुशयः इति सूत्रम् । विक्रीतं मूल्यमादाय दत्तं पण्यं, क्रीतं