This page has been fully proofread once and needs a second look.

४४. गणिकाध्यक्षः[^२६] । ४५. नावध्यक्षः[^२७] । ४६. गोऽध्यक्षः[^२८] ।
४७. अश्वाध्यक्षः[^२९] । ४८. हस्त्यध्यक्षः[^३०] । ४९. रथाध्यक्षः[^३१] ।
५०. पत्त्यध्यक्षः[^३२] । ५१. सेनापतिप्रचारः[^३३] । ५२. मुद्राध्यक्षः[^३४] ।
५३. विवीताध्यक्षः[^३५] । ५४. समाहर्तृप्रचारः[^३६] । ५५. गृहपतिकवैदेहक-
तापसव्यञ्जनाः प्रणिधयः[^३७] । ५६. नागरिकप्रणिधिः[^३८] ॥
 
॥ इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् ॥
 
------
 
श्रीमूला
 
गणिकाध्यक्षः इति सूत्रम् । धनमेव गणयन्तीति गणिका वेश्याः तासामध्यक्षः
गणिकाध्यक्षः ॥ २६ ॥
 
नावध्यक्षः इति सूत्रम् । नावां यानपात्राणां अध्यक्षः आदेयराजभाग-
ग्रहणाधिकर्ता ॥ २७ ॥
 
गोध्यक्ष इति सूत्रम् । गवाम् उपलक्षणेन गोमहिषाजादीनां तदाजीवानां
गोपालादीनां च अध्यक्षः नियामक इत्यर्थः ॥ २८ ॥
 
अश्वाध्यक्ष इति सूत्रम् । अश्वानां लक्षणकुलादिकं विज्ञाय तद्रक्षणादिकर्मा-
नुष्ठाता अश्वाध्यक्षः ॥ २६ ॥
 
हस्त्यध्यक्षः इति सूत्रम् । अश्वाध्यक्षवद् हस्त्यध्यक्षो व्याख्येयः ॥ ३० ॥
 
रथाध्यक्षः इति सूत्रम् । रथानां देवरथादीनां घटनाद्यधिकर्ता रथाध्यक्षः ॥ ३१॥
पत्त्यध्यक्षः इति सूत्रम् । पत्तयः पदातयः ये पादचारेण युध्यन्ते, तेष्वधिकृतः
पत्त्यध्यक्षः ॥ ३२ ॥
 
सेनापतिप्रचारः इति सूत्रम् । सेनापतिः चतुरङ्गबलनेता तस्य प्रचारः
सेनाविषयो व्यापारः प्रतिपाद्यत इत्यर्थः ॥ ३३ ॥
 
मुद्राध्यक्षः इति सूत्रम् । मुद्रा नाम राजचिह्नं राजनामधेयं प्रतिमादिलक्षणं
यच्छासनपत्रादौ दीयते, तस्या अध्यक्षः प्रवर्तयिता ॥ ३४ ॥
 
विवीताध्यक्षः इति सूत्रम् । विवीतं तृणजलवान् अकृष्यः प्रदेशः पश्वर्थः,
तस्याध्यक्षः तद्व्यापार इत्यर्थः ॥ ३५ ॥
 
समाहर्तृप्रचारः इति सूत्रम् । समाहर्ता आयस्थानेभ्यो राजार्थसङ्ग्राहको
जनपदाध्यक्षः तस्य प्रचारो व्यापारः जनपदचिन्तनमित्यर्थः ॥ ३६ ॥
 
गृहपतिकवैदेहकतापसव्यञ्जनाः प्रणिधयः इति सूत्रम् । गृहस्थ-वणिक्-तप-
<flag>स्विषाः</flag> प्रणिधयः गूढपुरुषाः । अर्थात् तेषां जनपदेषु नियोजनम् । तच्च समाहर्तृ -
कार्योपयोगिने जनपदवृत्तान्तज्ञानाय ॥ ३७ ॥
 
नागरिकप्रणिधिः इति सूत्रम् । नगरे नियुक्तो नागरिकः, तस्य प्रणिधिः
प्रणिधानं व्यापारचिन्तनमित्यर्थः ॥ ३८ ॥
 
इतीत्यादि । अध्यक्षप्रचारोऽध्यक्षाणां व्यापारः ॥