This page has been fully proofread once and needs a second look.

र्णिकप्रचारः[^१४] । ३३. कोष्ठागाराध्यक्षः[^१५] । ३४. पण्याध्यक्षः[^१६] ।
३५. कुप्याध्यक्षः[^१७] । ३६. आयुधागाराध्यक्षः[^१८] । ३७. तुलामान-
पौतवम्[^१९] । ३८. देशकालमानम्[^२०] । ३९. शुल्काध्यक्षः[^२१] । ४०. सूत्रा-
ध्यक्षः[^२२] । ४१. सीताध्यक्षः[^२३] । ४२. सुराध्यक्षः[^२४] । ४३. सूत्रा-
ध्यक्षः[^२५] ।
 
------
 
श्रीमूला
 
विशिखायां सौवर्णिकप्रचारः इति सूत्रम् । विशिखायाम् आपणवीथ्यां,
सौवर्णिकप्रचारः सुवर्णनियुक्तस्य व्यापारः ॥ १४॥
 
कोष्ठागाराध्यक्ष इति सूत्रम् । कोष्ठमुदरं लक्षणया तत्पोषणार्थं व्रीहि-
गोधूमादिकमाहारद्रव्यं तस्य अगारं सङ्ग्रहस्थानम् तस्याध्यक्षः, अर्थात् तद्-
व्यापारः ॥ १५ ॥
 
पण्याध्यक्षः इति सूत्रम् । विक्रेयद्रव्याध्यक्ष इत्यर्थः ॥ १६ ॥
 
कुप्याध्यक्षः इति सूत्रम् । कुप्यं सारदारुवेणुवल्लिवल्कादि तस्मिन् नियुक्तः
कुप्याध्यक्षः ॥ १७ ॥
 
आयुधागाराध्यक्षः इति सूत्रम् । स्पष्टार्थम् ॥ १८ ॥
 
तुलामानपौतवम् इति सूत्रम् । तुला उन्मानसाधनं, मानं कुडुबादि, ताभ्यां
पौतवं परिच्छेदनं तुलामानपौतवं, लक्षणया तत्संशोधनमित्यर्थः । तच्च वाणिजकाः
कूटतुलामानव्यवहारिणो माभूवन्नित्येतदर्थम् ॥ १९ ॥
 
देशकालमानम् इति सूत्रम् । देशो योजनगव्यूतिक्रोशादिः, कालस्त्रुटिलवादिः
तयोर्मानं परिच्छेद इति सूत्रार्थः ॥ २० ॥
 
शुल्काध्यक्षः इति सूत्रम् । शुल्कं पञ्चदशभागादिकं शुल्कव्यवहारे वक्ष्यमाणं
राज्ञो देयं, तस्याऽध्यक्षः तद्व्यापार इत्यर्थः ॥ २१ ॥
 
सूत्राध्यक्षः इति सूत्रम् । सूत्रं कार्पासादिजस्तन्तुः तस्य अध्यक्षः तद्वानादि-
कारयिता ॥ २२ ॥
 
सीताध्यक्षः इति सूत्रम् । सीता कृषिः तस्या अध्यक्षः कृषितन्त्र - वृक्षायुर्वेदौ
विज्ञाय प्रवर्तकः ॥ २३ ॥
 
सुराध्यक्ष इति सूत्रम् । सुरा मधुमैरेयादि तस्या अध्यक्षः सन्धानविक्रयाद्य-
धिकृतः सुराध्यक्षः ॥ २४ ॥
 
सूनाध्यक्षः इति सूत्रम् । सूना भक्ष्यप्राणिवधस्थानम्, तस्या अध्यक्षः वध्या-
वध्यनियमनाद्यधिकृतः ॥ २५ ॥