This page has been fully proofread once and needs a second look.

सत्वं विनाऽविश्वास्यता
 
यद्यपि पूर्वोक्तसत्वविधुरेषु राज्य सञ्चालकत्वमिदानीं क्वचित् दृश्यते तथापि
तेषु लोकमतं पूर्ववदेवानुकूलं स्यादिति वक्तुं न शक्यते । वियतनामयुद्धादिस्वरूपस्य
पौण्डमुद्राया अवमूल्यनाद् युत्तरघटनाया देशे दुरवस्थाया वर्तमानायाः सत्याग्रहादि-
समस्यायाः स्वरूपस्य च प्रदर्शनेन प्रजाया असात्विकेषु राज्य सञ्चालकेषु अविश्वास्य-
त्वस्य विवर्धमानस्योपलब्धेः ।
 
शास्त्राभावेऽपि प्रवृत्तिः तत्र दोषश्च
 
अथ शास्त्राध्ययनादिकं विनापि -
 
अर्थशब्दवपुः काव्यं रसैः प्राणैर्विसर्पति ।
अञ्जसा तेन सौहार्दं रसेषु कविमानिनाम् ॥
न तथार्थशब्दोत्प्रेक्षा श्लाघ्या काव्ये यथा रसः ।
विपाककम्रमव्याम्रमुद्वेजयति नीरसम् ॥
 
इत्युक्तन्यायेन रसात्मकप्रतीतेर्लोकेषु उत्पादयितुं शक्यतया तथा लोकसम्मत-
त्वप्राप्तिसम्भवेन शास्त्रस्यारम्भो निष्प्रयोजन एवेति चेदत्रोच्यते ।
 
तत्र तावदादौ रसप्रतीतिः कथं भवतीति चिन्त्यते । तथाहि -
 
तां प्रति विभावानुभावयोर्व्याप्तिवासना, स्थायिभाववासना, काव्यार्थभावना
चेति समूहः कारणम् । ( का० प्र० ३-४-४ अभिनवमतम् )
 
तत्र विभावानुभावव्याप्तिवासना स्थायिभाववासना च प्रसिद्धैव । काव्यार्थ-
भावना तु चित्रतुरगन्यायेन नाटकदर्शिनामात्मनि संजायमाना प्रतीतिः सा च चित्रादौ
चित्रत्वतुरगत्वोभयव्यासक्तैकप्रकारताकचित्रनुरगोभयव्यासक्तैकविशेष्यताका भवति ।
एवं नाट्यदर्शने रामत्वनटत्वोभयपर्या तकप्रकारताकरामनटोभयपर्याप्तै विशेष्यताका
सामाजिकेषु भवति । सेयं साहित्यस्य महान् व्यापार: । एतद्विषये विस्तरस्तु
श्रीगोकुलनाथोपाध्यायकृतकाव्यप्रकाशव्याख्यायां द्रष्टव्यः ।
 
इदमेव वासनात्रयं रसाभासमव्युत्पादयितुं समर्थम् भवति तदुत्पादनन्त्वनुचितम्,
औचित्यानौचित्यभेदेन तयोविशेषात् । तथाहि -
 
विभावानुभावब्याप्त्यादिसंस्कार : यदि प्रमाजन्यो भवेत् तर्हि तज्जन्या प्रतीतो
रस इत्यभिधीयते । यदि च उक्तव्या त्यादिसंस्कारो भ्रमजन्यो भवति तदा तज्जन्या
प्रतीती रसाभास इति । सत्यामेवं विधायां स्थितौ यदि शास्त्रजन्यं ज्ञानं न भवेत्
तदा सत्यत्वबुद्ध्या अयथार्थेषु उक्तव्याप्तिसंस्कारस्योद्बोधेन रसाभासप्रतीतेरुत्पत्यो-