This page has been fully proofread once and needs a second look.

[ द्वितीयमधिकरणम् ]
 
१९. जनपदद्विनिवेशः[^१] । २०. भूमिच्छिद्रविवानम्[^२] । २१. दुर्गविधा-
 
------
 
श्रीमूला
 
इत्थमात्मानं रक्षतो राज्ञो नियतकालां व्यापारपरिपाटीं वक्तुं सूत्रं राज-
प्रणिधिः इति । राज्ञः प्रणिधिः प्रणिधानं व्यापारपरिचिन्तनमित्यर्थः ॥ १६ ॥
 
निशान्तप्रणिधिः इति सूत्रम् । निशान्तं राजभवनं, तस्य प्रणिधिः प्रणिधानं
देशसन्निवेशादिचिन्तनम् ॥ १७ ॥
 
आत्मरक्षितकम् इति सूत्रम् । रक्षितमितिभावे क्तः, स्वार्थे च कः । राज्ञ
आत्मरक्षणौपयिकं प्रकरणेऽस्मिन्नुपदिश्यत इत्यर्थः ॥ १८ ॥
 
इति विनयाधिकारिकमित्यादि । विनयः विद्यादिशिक्षणं तस्याधिकारः
प्रस्तावो विनयाधिकारः, सोऽस्मिन्नस्तीति विनयाधिकारिकं नाम प्रथममधिकरणं
समुद्दिष्टमित्यर्थः ॥
 
इत्थं प्रथमाधिकरणसूत्रिताष्टादशप्रकरणोपदिष्टवर्त्मना समासादितविनय-
सम्पत्को राजा तन्त्रावापयोरधिकारी भवति । तन्त्रं नाम स्वराज्यक्षेमसाधनानुकूलः
पञ्चस्वाद्येष्वधिकरणेषु पञ्चनवत्या सूत्रैः प्रतिपाद्यमानोऽर्थः । आवापः शत्रु-
राष्ट्रहरणानुकूलः षष्ठादिषु त्रयोदशान्तेषु अष्टस्वधिकरणेषु सूत्राणामेकाशीत्या
प्रतिपाद्यमानोऽर्थः, अर्थं ह्येनं विज्ञाय प्रवर्तमानो विजिगीषुः परराष्ट्रं स्ववशे
करोतीति । तत्र येऽर्थाः द्वितीयेऽधिकरणे अध्यक्षप्रचाराख्ये अष्टात्रिंशता सूत्रैः
प्रतिपाद्यन्ते, ये तृतीये धर्मस्थीये एकोनविंशत्या सूत्रैः, ये चतुर्थे दुर्गराष्ट्रसम्बन्धि-
कण्टकशोधनाख्ये त्रयोदशभिः सूत्रैः, ये च पञ्चमे राजराज्यकण्टकशोधनपरे
योगवृत्तनाम्नि सप्तभिः सूत्रैः, तेष्वेव सर्वेष्वधीनं राज्यकुटुम्बभरणकर्मेति तमेतं
चतुरधिकरण्यर्थं तन्त्रमाहुः, तत्रिधातो कुटुम्बधारणार्थत्वात् । द्विसूत्रं प्रकरण-
द्वयात्मकं मण्डलयोनिसंज्ञमधिकरणं षष्ठम्, एकोनत्रिंशत्सूत्रयुक्तं षाड्गुण्यं सप्तमम्,
अष्टसूत्रीरूपं व्यसनाधिकारिकमष्टमं, द्वादशसूत्रमभियास्यत्कर्माख्यं नवमं, त्रयोदश-
सूत्रं साङ्ग्रामिकं दशमं, द्विसूत्रं सङ्घवृत्तमेकादशम्, नवसूत्रमाबलीयसं द्वादशम्,
षट्सूत्रं दुर्गलम्भोपायाख्यं त्रयोदशमित्येकाशीतिसूत्रामष्टाधिकरणीं शत्रुराज्यहरणो-
पायोपदेशिनीमावापं व्यवहरन्ति ।
 
त्रिसूत्रमौपनिषदं नाम चतुर्दशमधिकरणं तन्त्रावापयोरत्यन्तमनुगुणम् । एक-
सूत्रात्मकं तन्त्रयुक्तिसंज्ञं पञ्चदशमधिकरणणं कौटिल्यशास्त्रादृतास्तन्त्रयुक्ती <flag>र्द्वात्रिंशतं</flag>
व्युत्पादयतीति स्थितिः ।
 
तत्र स्वराज्यं रक्षतो राजधान्याद्यपेक्षणादध्यक्षप्रचाराधिकरणे जनपदविनिवेश
इति प्रथमं प्रकरणं सूत्रितम् ॥ १॥
 
स्वराज्यगतानां कृषिनिवासानर्हाणां गिरिवनश्वभ्रप्रायाणां भूभागानामुपयोग-
प्रकारोपदेशार्थं सूत्रं भूमिछिद्रविधानम् इति । भूमिच्छिद्राणां कृष्याद्यनर्हभूभागानां
विधानम् उपयोग्रप्रकार इत्यर्थः । "भूमिच्छिद्रं कृष्ययोग्ये"ति यादवः ॥ २ ॥