2024-04-14 04:22:58 by सौम्य भाटी
This page has been fully proofread once and needs a second look.
श्रीमूला
तत्र विनयविहीनो लोकशास्त्रव्यवहारेष्वशिक्षितो राजा राज्यरक्षणानर्हत्वाद्
वैनयिकीषु विद्यास्ववश्यं विनेतव्य इत्यतो विद्यासमुद्देश इत्येतत् प्रकरणमादौ
सूत्रितम् ॥ १ ॥
विद्याश्च वृद्धसंयोगाभावे लब्धुं न शक्या इति वृद्धसंयोग इति सूत्रम् ॥ २ ॥
वृद्धसंयोगश्च इन्द्रियजयमन्तरेण न लभ्य इति इन्द्रियजय इति सूत्रम् ॥ ३॥
वृद्धैर्विद्यासु शिक्षितो जितेन्द्रियोऽपि सहायाभावे कार्यं साधयितुं न क्षम इति
तदनन्तरम् अमात्योत्पत्तिरिति सूत्रम् ॥ ४ ॥
अमात्याश्च केचिद् बुद्धिसाचिव्याय नित्यनैमित्तिककर्मसाचिव्याय चापेक्षिताः,
शान्तिकपौष्टिककर्मानुष्ठानाय चान्ये । तदर्थं मन्त्रिपुरोहिताः कर्तव्या इति मन्त्रि-
पुरोहितोत्पत्तिरिति सूत्रम् ॥ ५ ॥
तैश्च सर्वप्रकारविशुद्धैभाव्यमिति उपधाभिः शोचाशौचज्ञानममात्यानाम् इति
सूत्रम् ॥ ६ ॥
उपधाशुद्धिर्गूढपुरुषानन्तरेण ज्ञातुमशक्येति ततो गूढपुरुषोत्पत्तिः इति
सूत्रम ॥ ७ ॥
तेषां च स्वामिनियोगमन्तरेणाव्यापाराद् गूढपुरुषप्रणिधिः इति सूत्रम् । गूढ-
पुरुषाणां प्रणिधिः प्रणिधानं तत्तत्कार्येषु स्वामिना नियोजनमिति तदर्थः ॥ ८ ॥
तैश्च नियुक्तैः स्वराज्यगतान् क्रुद्धलुब्धादीन् विज्ञाय तद्दोषप्रतिविधानं,
परराष्ट्रगतान् विज्ञाय तेषां भेदनेन स्वपक्षे प्रवेशनं चावश्यकमिति स्वविषये
कृत्याकृत्यपक्षरक्षणम् इति, परविषये कृत्याकृत्यपक्षोपग्रहः इति च सूत्रे । स्वदेशे
कृत्याः शत्रुभेद्याः क्रुद्धादयः, अकृत्याः अभेद्याः सुहृदः, कृत्याकृत्यानां पक्षाणां सङ्घानां
शत्रूपजापाद् रक्षणमिति प्रथमसूत्रस्यार्थः । <flag>परराष्ट्रे ये</flag> कृत्याकृत्याः पक्षाः
तेषामुपजापादिना स्वपक्षे सङ्ग्रहणमिति द्वितीयसूत्रस्यार्थः ॥ ९, १० ॥
स्वराष्ट्ररक्षणं परराष्ट्रहरणमित्येतावद् राज्ञः कर्मसर्वस्वम् । तस्य मन्त्रा-
यत्तत्वान्मन्त्राधिकारः इति सूत्रम् कर्मणामारम्भोपायादिसम्प्रधारणं मन्त्रः, तस्या-
धिकारी मन्त्राधिकार इति ॥ ११ ॥
परराष्ट्रकरणीयानां स्वकर्मणां स्वयं कर्तुमशक्यतया दूतसापेक्षत्वाद् दूत-
प्रणिधिः इति सूत्रम् ॥ १२ ॥
यथा राजपुत्रास्स्वपितरि न द्रोहमावरेयुः तथा ते प्रयत्नेन परोपजापादिभ्यो
रक्षणीया इति राजपुत्ररक्षणम् इति सूत्रम् ॥ १३ ॥
पित्रा क्वचिदवरुध्य तथा रक्ष्यमाणः कुमारः पितरि कथं व्यवहरेत्,
पिता च तस्मिन् कथमित्येतद् वक्तुं सूत्रे अवरुद्धवृत्तम् इति, अवरुद्धे च वृत्तिः
इति च ॥ १४, १५ ॥